पुरोऽग्रतोऽग्रेषु सर्तेः

3-2-18 पुरः अग्रतः अग्रेषु सर्त्तेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अधिकरणे टः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पुरस्, अग्रतस्, अग्रे इत्येतेषूपपदेषु सर्तेर्धातोष्टप्रत्ययो भवति। पुरः सरति पुरःसरः। अग्रतःसरः। अग्रेसरः॥

Siddhanta Kaumudi

Up

पुरस्सरः । अग्रतसरः । अग्रमग्रेणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्रे इति एदन्तत्वमपि निपात्यते । कथं तर्हि यूथं तदग्रसरगर्वितकृष्णसारमिति । बाहुलकादिति हरदत्तः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पुरोऽग्रतोऽग्रेषु सर्तेः>> - पुरोऽग्रतः । पुरस्, अग्रतस्, अग्रे — एषूपपदेषु सर्तेः टः स्यादित्यर्थः । अग्रेसर इति । ननु समासाऽवयवत्वात्सुपो लुकि अग्रसर इति स्यादित्यत आह — सूत्र इति । कथमिति । एदन्तत्वनिपातनात्कथमग्रसरशब्द इत्यर्थः । समाधत्ते — बाहुलकादिति । पूर्वे कर्तरि । कर्तृशब्दः कर्तृवाचिनि गौणः । तदाह — कर्तृवाचिनीति ।

Padamanjari

Up

पुरोऽग्रतोऽग्रेषु सर्ते॥ अग्रे इत्येतेष्विति। एतेनाग्रशब्दस्यैकारान्तत्वं निपात्यत इति दर्शयति। एतच्चाग्रेशब्दस्यच परनिपातनादेव विज्ञायते, अन्यथा ठजाद्यदन्तम्ऽ इति पूर्वनिपातः स्यात्। किमर्थ पुनरेकारान्तत्वं निपात्यते, यावता सप्तम्या अलुकाप्यग्रेसर इति सिद्धम्? यदा तर्ह्यग्रं सरति अग्रेण सरतीति वा विगृह्यते तदाप्यग्रेसर इत्येव यथा स्यात्। कथं'यूथं तदग्रसरगर्वितकृष्णसारम्' इति?'कृत्यल्युटो बहुलम्' इति समर्थनीयम्॥