3-2-187 ञीतः क्तः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने
ञि इद् यस्यासौ ञीत्। ञीतो धातोर्वर्तमानेऽर्थे क्तप्रत्ययो भवति। भूते निष्ठा विहिता वर्तमाने न प्राप्नोतीति विधीयते। <<ञिमिदा स्नेहने>> — मिन्नः। ञिक्ष्विदा — क्ष्विण्णः। ञिधृषा — धृष्टः॥
ञिक्ष्विदा । क्ष्विण्णः । ञि इन्धी । इद्धः ॥
<<ञीतः क्तः>> - ञीतः क्तः । ञि इद्यस्य तस्माद्वर्तमानाक्रियावृत्तेः क्त इत्यर्थः ।तयोरेव कृत्युक्ते॑ति भावकर्मणोरेव भूते विहितः क्तो वर्तमाने न प्राप्नोतीत्यारम्भः । क्ष्विण्ण इति ।आदिश्चे॑ति नेट् । इद्ध इति । श्वीदितः॑ इति नेट् ।
ञीतः क्तः॥ भूते निष्ठा विहितेत्यादि। तत्र येननाप्राप्तिन्यायेन क्तस्यैव वर्तमानविषयतया भूतविषयता बाध्यते, यथा -'वडवाया वृषे वाच्ये' इत्यत्र वक्ष्यते - अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयत इति। एवमुतरविहितस्यापि। ज्ञातमित्येततु भूतेऽपि भवति, तेनेत्यधिकारे उपज्ञात इति तद्धितविधानात्। वर्तमाने हि'क्तस्य च वर्तमाने' इति षष्ठ।ल भाव्यम्। एवं च'पूजितो यः सुरैरपि' इत्यादीनां साधुत्वं चिन्त्यम्॥