पुवः संज्ञायाम्

3-2-185 पुवः सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने करणे इत्रः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूङ्पूञोः सामान्येन ग्रहणम्। पवतेर्धातोःकरणे कारक इत्र प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। दर्भः पवित्रम्। बर्हिष्पवित्रम्॥

Siddhanta Kaumudi

Up

पवित्रम् । येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् ॥

Laghu Siddhanta Kaumudi

Up

पवित्रम् ॥ इति पूर्वकृदन्तम् ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पुवः संज्ञायाम्॥ बर्हिष्पवित्रमिति। बर्हिषा कृतं बर्हिषः पवित्रं भवति, तत्र षष्ठीसमासः,'नित्यं समासे' नुतरपदस्थस्यऽ इति षत्वम्। येनाज्यमुत्पूयते तत्पवित्रम्। अनामिकायाश्चाङ्गुलेर्वेष्ठनं जपादिषु॥