3-2-184 अर्तिलूधूसूखनसहचरः इत्रः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने करणे
<<ऋ गतौ>> <<लूञ् छेदने>> <<धू विधूनने>> <<षू प्रेरणे>> <<खनु अवदारणे>> <<षह मर्षणे>> <<चर गतिभक्षणयोः>> एतेभ्यो धातुभ्यः करणे कारक इत्रः प्रत्ययो भवति। अरित्रम्। लवित्रम्। धवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्॥
अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥
अरित्रम् । लवित्रम् । धुवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥
<<अर्तिलूधूसूखनसहचर इत्रः>> - अर्तिलूधू । अर्ति, लू, धू, सू , खन, सह , चर एषां सप्तानां द्वन्द्वात्पञ्चमी ।
अर्तिलूधूसूखनसहचर इत्रः॥ इकारोपदेशः'तितुत्र' इति ठेकाचःऽ इति च यथायोगमिट्प्रतिषेधो मा भूदिति। स्वरार्थश्च, इटि हि सत्यागमानुदातत्वं स्यात्, इका तु प्रत्ययाद्यौदातद्तत्वम्॥