3-2-183 हलसूकरयोः पुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने ष्ट्रन् करणे
पू इति पूङ्पूञोस्सामान्येन ग्रहणम्। अस्माद् धातोः करणे कारके ष्ट्रन् प्रत्ययो भवति, तच्चेत् करणं हलसूकरयोरवयवो भवति। हलस्य पोत्रम्। सूकरस्य पोत्रम्। मुखमुच्यते॥
पूङ्पूञोः करणे ष्ट्रन् स्यात् तच्चेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम् । मुखमित्यर्थः ॥
<<हलसूकरयोः पुवः>> - हलसूकरयोः पुवः । पोत्रमिति ।तितुत्रतथसिसुसरे॑ति नेट् ।
हलसूकरयोः पुवः॥ तच्चेत्करणं हलसूकरयोरवयवो भवतीति। एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्यति। मुखमुच्यते इति। नान्यः कर्णादिः। एतदपि स्वभावादेव लभ्यते॥