धः कर्मणि ष्ट्रन्

3-2-181 धः कर्मणि ष्ट्रन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

धयतेर्दधातेश्च कर्मणि कारके ष्ट्रन् प्रत्ययो भवति। षकारो ङीषर्थः। धयन्ति तां दधति वा भैषज्यार्थमिति धात्री। स्तनदायिनी आमलकी चोच्यते॥

Siddhanta Kaumudi

Up

धेटो घाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<धः कर्मणि ष्ट्रन्>> - धः कर्मणि ष्ट्रन् । धेटः कृतात्वस्य धाञश्च ध इति पञ्चम्यन्तम् । तदाह — धेट इत्यादि । षकारात्तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः । तदाह — धात्रीत्यादि ।

Padamanjari

Up

धः कर्मणि ष्ट्रन्॥ कर्मणि कारक इति। उपपदं तु कर्म न स्मभवति, यदि स्यात्'कर्मण्यण्' इत्यस्मिन्नेव प्रकरणे ष्ट्रनं विदध्यात्। ननु चोतरसूत्रे पुनः ष्ट्रन्ग्रहणं कर्तव्यं स्यात्, अस्तु लघीयो हि कर्मग्रहणात्ष्ट्रन्ग्रहणम्। न चेह वर्तमानकाले ष्ट्रन्प्रत्ययः, धात्रीत्युक्ते क्रियाकारकसम्बन्धमात्रं गम्यते। अतः'कर्मणि' इति प्रत्ययार्थ एव, नोपपदम्॥