3-2-180 विप्रसम्भ्यः डु असञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने भुवः
index: 3.2.180 sutra: विप्रसम्भ्यो ड्वसंज्ञायाम्
भुवः इति वर्तते। वि प्र सम् इत्येवं पूर्वाद् भवतेर्धातोः डुप्रत्ययो भवति, न चेत् संज्ञा गम्यते। विभुः सर्वगतः। प्रभुः स्वामी। सम्भुः जनिता। असंज्ञायाम् इति किम्? विभूर्नाम कश्चित्। डुप्रकरणे मितद्र्वादिभ्य उपसङ्ख्यनम्। मितं द्रवति मितद्रुः। शम्भुः।
index: 3.2.180 sutra: विप्रसम्भ्यो ड्वसंज्ञायाम्
एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभूर्व्यापकः । प्रभुः स्वामी । संभुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् ।<!मितद्र्वादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ मितं द्रवतीति मितद्रुः । शतद्रुः । शंभुः । अन्तर्भावितण्यर्थोऽत्र भवतिः ॥
index: 3.2.180 sutra: विप्रसम्भ्यो ड्वसंज्ञायाम्
विप्रसम्भ्यो ड्वसंज्ञायाम् - विप्रसंभ्यः ।डु- अ- संज्ञाया॑मिति छेदः । विभुरिति । डित्तवसमाथ्र्यादभस्यापि टेर्लोपः । सप्भुरिति । संभवति उत्पादयतीति सम्भुः । तदाह — जनितेति । मितद्व्रादिसिद्द्ध्यर्थं डुप्रत्ययस्य उपसङ्ख्यानमित्यर्थः । शम्भुरिति । शं = सुखं , भवति = उत्पादयतीत्यर्थः । तदेवोपपादयति - अन्तर्भावितेति ।
index: 3.2.180 sutra: विप्रसम्भ्यो ड्वसंज्ञायाम्
विप्रसंभ्यो ङ्वसंज्ञायाम्॥ मितद्रवादिभ्य इति। मितादिपूर्वेभ्यो धातुभ्य इत्यर्थः। शम्भुरिति। अन्तर्भावितण्यर्थोऽत्र भवतिः॥