3-2-179 भुवः सञ्ज्ञान्तरयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्विप्
index: 3.2.179 sutra: भुवः संज्ञाऽन्तरयोः
भवतेर्धातोः संज्ञायामन्तरे च गम्यमाने क्विप् प्रत्ययो भवति। विभूर्नाम् कश्चित्। अन्तरे प्रतिभूः। धनिकाधमर्णयोरन्तरे यस् तिष्ठति स प्रतिभूरुच्यते।
index: 3.2.179 sutra: भुवः संज्ञाऽन्तरयोः
मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ॥
index: 3.2.179 sutra: भुवः संज्ञाऽन्तरयोः
भुवः संज्ञाऽन्तरयोः - भुवः संज्ञान्तरयोः ।क्वि॑बिति शेषः ।संज्ञान्तरयोरेवेति॑ नियमार्थं सूत्रम् । संज्ञायामुदाहरति — मित्रभूर्नामेति । अन्तरे उदाहरति — धनिकेत्यादि । यावद्द्रव्यभाविन्यः प्रतिभूशब्दस्तु सत्येव पुरुषे कदाचिन्न भवति, ऋणे प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः ।
index: 3.2.179 sutra: भुवः संज्ञाऽन्तरयोः
भुवः संज्ञान्तरसोः॥ धनिकाधमर्णयोरिति। यस्मै ऋणं धार्यते स धनिकः, यो धारयति सोऽधमर्णः, तयोरन्तरे मध्ये यस्तिष्ठति विश्वासार्थ स प्रतिभूरित्युच्यते। ग्रामयोरन्तरे यस्तिष्ठति तत्र न भवति। एतच्च द्दशिग्रहणानुवृतेर्लभ्यते। यद्येबम्, संज्ञेयं भवति, तत्र'संज्ञायाम्' इत्येव सिद्धम्? अत्राहुः - -यावद्भव्यभाविन्यः संज्ञा भवन्ति, प्रतिभूशब्दस्तु सत्येव तस्मिन्नृणप्रतिदाने निवर्तते॥