भिक्षासेनादायेषु च

3-2-17 भिक्षासेनादायेषु च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अधिकरणे चरेः टः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनधिकरणार्थ आरम्भः। भिक्षा सेना आदाय इत्येतेषूपपदेषु चरेर्धातोष्टप्रत्ययो भवति। भिक्षाचरः। सेनाचरः। आदायचरः॥

Siddhanta Kaumudi

Up

भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पचादिषु चरडिति पाठात् ॥

Laghu Siddhanta Kaumudi

Up

भिक्षाचरः। सेनाचरः। आदायेति ल्यबन्तम्। आदायचरः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भिक्षासेनाऽऽदायेषु च>> - भिक्षासेना । भिक्षा, सेना, आदाय- एषु चोपदेषु चरेष्टः स्यादित्यर्थः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके आर्जने वर्तते । चरणेन भिक्षा मार्जयतीत्यर्थ- । सेनाचर इति । सेनां प्रापयतीत्यर्थः । ल्यबन्तमिति । अत्र व्याख्यानमेव शरणम् । आदाय चरतीति । लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः । कथमिति । अधिकरणे भिक्षासेनाऽऽदायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाच्चरेसंभवादिति भावः । समाधत्ते — पचादिष्विति । यद्यपि 'भिक्षाचर' इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः ।

Padamanjari

Up

भिक्षाशेनादायेषु च॥ भिक्षाचर इति। चरतिरत्र तत्पूर्वके अर्जने वर्तते, चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचर इति। सेनां प्रविशन्नुच्यते। आदायचर इति। आदाय गच्छतीत्यर्थः, भक्षयतीति वा। कथं सहचरः, सहचरीति? पचादिषु चरडिति पठ।ल्ते, सुप्सुपेति समासः॥