अन्येभ्योऽपि दृश्यते

3-2-178 अन्येभ्यः अपि दृश्यते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु क्विप्

Kashika

Up

index: 3.2.178 sutra: अन्येभ्योऽपि दृश्यते


अन्येभ्योऽपि धातुभ्यः ताच्छीलिकेषु क्विप् प्रत्ययो दृश्यते। युक्। छित्। भित्। दृशिग्रहणं विध्यन्तरोपसङ्ग्रहार्थम्। क्वचिद् दीर्घः, क्वचिद् द्विर्वचनम्, क्वचित् सम्प्रसारणम्। तथा च आह क्विब्वचिप्रच्छायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च। वाक्। शब्दप्राट्। आयतस्तूः। कटप्रूः। जूः। श्रीः। जुग्रहणेन अत्र न अर्थः, भ्राजादि सूत्र एव गृहीतत्वात्। द्युतिगमिजुहोतीनां द्वे च। दिद्युत्। जगत्। जुहोतेर्दीर्घश्च। जुहूः। दृ̄ भ्ये इत्यस्य ह्रस्वश्च द्वे च। ददृत्। ध्यायतेः सम्प्रसारणं च। धीः।

Siddhanta Kaumudi

Up

index: 3.2.178 sutra: अन्येभ्योऽपि दृश्यते


क्विप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । क्वचिद्दीर्घः क्वचिदसंप्रसारणं क्वचिद्द्वे क्वचिद्ध्रस्वः । तथा च वार्तिकम् ।<!किब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणं दीर्घोऽसंप्रसारणं च !> (वार्तिकम्) ॥ किब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जूरुक्तः । श्रयति हरिं सा श्रीः ।<!द्युतिगमिजुहोतीनां द्वे च !> (वार्तिकम्) ॥ दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् ।<!जुहोतेर्दीर्घश्च !> (वार्तिकम्) ॥ जुहूः । दॄ भये । अस्य ह्रस्वश्च । दीर्यति ददृत् ।<!ध्यायतेः संप्रसारणं च !> (वार्तिकम्) ॥ धीः ॥

Balamanorama

Up

index: 3.2.178 sutra: अन्येभ्योऽपि दृश्यते


अन्येभ्योऽपि दृश्यते - अन्येभ्योऽपि । क्विबिति । शेषपूरणमिदम् ।भ्राजभासे॑त्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप् दृश्यते इत्यर्थः । विध्यन्तरेति । विधीयते इति विधिः = कार्यं । कार्यान्तरोपसङ्ग्रहार्थमित्यर्थः । तदेव दर्शयति — क्वचिद्दीर्घ इत्यादि । कक्विब्वचीत्यादिनेति ।क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं चे॑त्यौणादिकसूत्रेणेत्यर्थः । तृना बाधा मा भूदिति । वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः । वागिति । वचधातोः क्विप्, वचनादुपधाया दीर्घः,वचिस्वपी॑ति संप्रसारणाऽभावश्च । एवं कटप्रूरित्यत्र दीर्घः । प्राडिति । वचनान्न संप्रसारणम् । जुरुक्त इति ।भ्राजभासेत्यत्रे॑ति शेषः । अतोऽत्र तद्ग्रहमं मासत्विति भावः । श्रीरिति । श्रिञः क्विपि दीर्घः । द्युतीति ।द्युतिगमिजुहोत्यादिनां द्वित्वं क्विप्चे॑ति वाच्यमित्यर्थः । 'पूर्वोऽभ्यासः' इत्यतर् षाष्ठद्विर्वचन एव पूर्वखण्डस्याऽभ्याससंज्ञावचनादाह — दृशिग्रहणादिति ।अन्येब्योऽपि दृश्यते॑ इत्यत्रेत्यर्थः । ततश्चाऽभ्यासकार्यं हालदिशेषादीति भावः । दिद्युदिति ।द्युतिस्वाप्यो॑रिति संप्रसारणम् । जगदिति । गमेः क्विप् 'गमः क्वौ' इत#इ मलोपे तुक् । जुहोतेर्दीर्घश्चेति । वार्तिकमिदम् । चात्क्विब्द्वित्वे । ह्रस्वश्चेति । वार्तिकमिदम् । ददृदिति । ह्रस्वे कृते तुक् । ध्यायते । वार्तिकमिदम् । चात्क्विप् । धीरिति । ध्यैधातोः क्वनिपि संप्रासरणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः । अत्रध्यायतेः संप्रसारमं चे॑त्युणादिषु पठितत्वादिदं वार्तिकं माऽस्त्वित्याहुः । वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यते अतो न पौरनुक्त्यशङ्का ।

Padamanjari

Up

index: 3.2.178 sutra: अन्येभ्योऽपि दृश्यते


अन्येभ्योऽपि द्दश्यते॥ विध्यन्तरोपसंग्रहार्थमिति। द्दशिग्रहणे सति यथा क्विबन्ता धातवो द्दश्यन्ते, तथैव तेऽनुगन्तव्या इत्यर्थो भवति। एवं च ते तथानुगता भवन्ति यदि यथायोगं द्विर्वचनादयो - भवन्ति। विध्यन्तरमेव दर्शयतिक्वचिदिति। तथा चाहेति। वार्तिककारः। आयतं स्तौत्यायतस्तूः। कट्ंअ प्रवते कटप्रूः। दिद्युदिति।'द्यौतिस्वाप्योः सम्प्रसारणम्' इत्यभ्यास्य सम्पसारणम्। कथं पुनरभ्याससंज्ञा, यावता प्रत्यासतेः षाष्ठिक एव द्विर्वचने सा विधीयते, अत एवाष्टमिके न भवति? एवं तर्हि द्दशिग्रहणादेव सम्प्रसारणम्, अभ्याससंज्ञा च द्रष्टव्या। जगदिति।'गमः क्वौ' इति मलोपः। अत्रापि पूर्ववदेन्न्न्न्न्न्सकार्यम्। द्वे चेति चकारेण दीर्घः समुच्चीयमानो दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादचा च तदन्तविध्याश्रयणाज्जुहोतेरेवाजन्तस्य विज्ञायते, न द्यौतिगम्योरित्याह - जुहोतेर्दीर्घित्वं चेति। जुहूरिति। करणस्यात्र कर्तृत्वविवक्षा। धीरित्यत्रापि करणस्यैव कर्तृत्वविवक्षा, पुरुषो हि ध्यायति, न धीः॥