3-2-173 शॄवन्द्योः आरुः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
<<शृ हिंसायाम्>> <<वदि अभिवादनस्तुत्योः>> एताभ्यां धातुभ्यां तच्छीलादिषु कर्तृष्वारुः प्रत्ययो भवति। शरारुः। वन्दारुः॥
शरारुः । वन्दारुः ॥
<<शॄवन्द्योरारुः>> - शृवन्द्योरारुः । पञ्चमर्थे षष्ठी । 'शृ हिंसायां'वदि अभिवादनस्तुत्योः॑ । आभ्यामारुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः ।