3-2-171 आदृगमहनजनः किकिनौ लिट् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु छन्दसि
आकारान्तेभ्य ऋवर्णान्तेभ्यो गम हन जन इत्येतेभ्यश्च छन्दसि विषये तच्छीलादिषु किकिनौ प्रत्ययौ भवतः। लिड्वच्च तौ भवतः। आदिति तकारो मुखसुखार्थः, न त्वयं तपरः, मा भूत् तादपि परस्तपर इति ऋकारे तत्कालग्रहणम्। प॒पिः सोमं॑ द॒दिर्गाः (ऋ० ६.२३.४)। मित्रावरुणा॒ ततु॑रिम् (ऋ० ४.३९.२)। दू॒रे ह्यध्वा॒ जगु॑रिः (ऋ० १०.१०८.१)। जग्मि॒र्युवा॑ (ऋ० ७.२०.१)। जघ्नि॑र्वृ॒त्रम् (ऋ० ९.६१.२०)। जज्ञि॒ बीज॒म् (तै० सं० ७.५.२०.१)। अथ किमर्थं कित्त्वम्, यावता <<असंयोगाल्लिट् कित्>>१.२.५ इति कित्त्वं सिद्धमेव? <<ऋच्छत्यृताम्>> ७.४.११ इति लिटि गुणः प्रतिषेधविषय आरभ्यते, तस्यापि बाधनार्थं कित्त्वम्॥ किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्॥ सेदिः॒ (श०ब्रा० ७.३.१.२३)। ने॒मिः (ऋ० २.५.३)॥ भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ वक्तव्यौ॥ दधिः। चक्रिः। सस्रिः। जज्ञिः। जग्मिः। नेमिः॥ सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ॥ <<दीर्घोऽकितः>> ७.४.८३। सासहिः। वावहिः। चाचलिः। पापतिः॥
आदन्तादृदन्ताद्गमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिड्वत् । पपिः सोमं ददिर्गाः । बभ्रिर्वज्रम् । जग्मिर्युवा । जघ्निर्वृत्रममित्रियम् । जज्ञिः ।<!भाषायां धाञ्कृसृगमिजनिनमिभ्यः !> (वार्तिकम्) ॥ दधिः । चक्रिः । सस्रिः । जग्मिः । जज्ञिः । नेमिः ।<!सासहिवावहिचाचलिपापतीनामुपसंख्यानम् !> (वार्तिकम्) ॥ यङ्न्तेभ्यः सहेत्यादिभ्यः किकिनौ पतेर्नीगभावश्च निपात्यते ॥
<<आदृगमहनजनः किकिनौ लिट् च>> - आदृगम । आत्, ऋ, गम, हन, जन्, एषां द्वन्द्वात्पञ्चमी ।कि किन् अनयोद्र्वन्द्वः । लिट् चेति व्याचष्टे — तौ च लिड्वदिति । तच्छीलादिष्वित्येव । पपिरिति । पाधातोः किः । द्वित्वादि, आल्लोपः । ददिरिति । दाधातोः किः । द्वित्वादि । बभ्रिर्वज्रमिति । भृञः किः, द्वित्वादि । जघ्निरित । हनः किः । द्वित्वादि ।गमहने॑त्युपधालोपः ।हो हन्ते॑रिति कुत्वम् । जज्ञिरिति । जनेः किः । द्वित्वादि । एवं किन्यपि बोध्यम् । स्वरे विशेषः । छान्दसमप्येतत्सूत्रद्वयं भाषायामित्यादिवक्ष्यमाणवरातिकविवेचनाय इहोपन्यस्तम् । भाषायामिति । वार्तिकमिदम् । धाञ्, कृ, सृ, गमि, जनि, नमि एभ्यः षड्भ्यः किकिनौ , तौ च लिड्वदिति वक्तव्यमित्यर्थः । दधिरित्यादि । किकिनोः कृतयोर्द्वित्वादि यथासंभवं ज्ञेयम् । नेमिरिति । नमेः किः । द्वित्वम् । एत्त्वाभ्यासलोपौ । सासहीति । सहेर्यङि द्वित्वादौ 'दीर्गोऽकितः' इति दीर्घे, किकिनोः कृतयोः 'यस्य हलः' इति यकारलोपे , अतो लोपेसासही॑ति निर्देशः । एवं वहेः चलेः पतेश्च यङन्तस्य किकिनन्तस्य निर्देशः । एषां निपातनस्य उपसङ्ख्यानमित्यर्थः । तदाह — यङन्तेभ्यः सहत्यादिभ्य इति । नीगभाव इति । 'नीग्वञ्चु' इति प्राप्तस्य नीगागमस्याऽभावन इत्यर्थः ।
आद्दगमहनजनः किकिनौ लिट् च॥ किकिनौ लिट् चापरार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थ गमयन्ति, गौर्वाहीक इतिवदित्याह - लिड्वच्च तौ भवतीति। किकिनौ भवतः, लिट् च प्रत्ययो भवतीत्ययं त्वर्थो न भवति; तथा हि सति'लिट् किकिनः' इत्येव ब्रूयात्। कार्यातिदेशश्चायम्। यद्येवम्,'लः परस्मैपदसंज्ञा किकिनोः स्यात्, ततश्च देङ्द्दङदिभ्य आत्मनेपदिभ्यो न स्याताम्। न लकारस्य परस्मैपदसंज्ञा, किं तर्हि? तदादेशानाम्, न चैतावादेशौ। एवमपि भावकर्मकर्तृषु त्रिष्वपि लिड्वद्भावात्किकिनौ प्राप्नुतः? नैषः;उत्पन्नयोर्लिट्कार्यमतिदेश्यम्। उत्पत्तिश्च तयोः कर्तर्येव भवति;'कर्तरि कृत्' इत्यनेनास्यैकवाक्यत्वात्। अनभिधानाद्वा भावकर्मणोर्न भविष्यतः। वर्तमानाधिकाराच्च वर्तमाने किकिनोर्विधानमिति भूतकालतापि विरोधान्नातिदिश्यते। स्वरूपाबाधेन च कार्यादिदेशः प्रवर्तत इति तिबादीनां कानच्क्वस्वोश्चाभावः। आदिति दकारो मुखसुखार्थ इति। आदित्ययं दकारः, स च मुखसुखार्थ इत्यर्थः। न त्वयं तपर इति। तश्चासौ परश्च तपरो नायमकारात्परस्तकारो जश्त्वेन निर्द्दिष्ट इत्यर्थः। किं कारणमित्याह - मा भूदिति। तकारो मुखसुखार्थ इति पाठे तु आदित्ययं तकारः स मुखसुखार्थः, न तु तपरकार्यसम्पादनार्थ इत्यर्थः। पपिः सोममिति।'न लोकाव्यय' इति षष्ठीप्रतिषेधो लिटः कार्यमिति सोमशब्दाद् द्वितीया। ततुरिरिति।'बहुलं च्छन्दसि' इत्युत्वम्।'द्विर्वचने' चि' इति स्थानिवद्भावात्'तृ' इत्येतद् द्विरुच्यते। जज्ञिरिति।'गमहन' इत्युपधालोपः, चुत्वम्। तद्वाघनार्थ कित्वमिति। अर्तेरृकारान्तानां च किकिनोर्गुणो मा भूदित्येवमर्थमित्यर्थः। उत्सर्ग इति। धातुमात्राद्विधानं कर्तव्यमित्यर्थः। कस्मादित्यत्राह - सदादिभ्यो दशनादिति। सेदिः नेमिरिति। सदेर्नमेश्चैत्वाभ्यासलोपौ। सहिवहित्यादि। अत्र भाषायामित्यपेक्ष्यते। पापतिरिति।'नीग्वञ्चु' इत्यादिना नीगागमः प्राप्तः सासहिवावहिचाचलिपापतीनां निपातनम्ऽ इति वार्तिककारवचनान्न भवति। इदं तु वृतौ पठितं वाक्यम्। अपर आहेति भाष्ये पठितम्, तत्रापि भाष्यकारवचनान्नीगभावः। उक्तं हि तेन - तान्येवोदाहरणानीति॥