3-2-170 क्यात् छन्दसि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु उः
क्य इति क्यच्क्यङ्क्यषां सामान्येन निर्देशः। क्यप्रत्ययान्ताद् धातोश्छन्दसि विषये तच्छीलादिषु कर्तृषु उकारप्रत्ययो भवति। मित्र॒युः॑ (मै०सं० २.६.१२)। <<न च्छन्दस्यपुत्रस्य>> ७.४.३५ इति प्रतिषेधाद् न दीर्घः। स॑ स्वे॒द॒युः॑ (मै०सं० ४.१२.२.४४)। सुम्न॒युः (ऋ० १.७९.१०)। छन्दसीति किम्? मित्रीयिता॥
देवाञ्जिगाति सुम्नयुः ॥
<<क्याच्छन्दसि>> - क्याच्छन्दसि । क्यप्रत्ययान्तादुप्रत्ययः स्यात्तच्छीलादिषु छन्दसीत्यर्थः । सुम्नयुरिति । सुम्नं - सुखम् ।तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच् ।न च्छन्दस्यपुत्रस्ये॑ति निषेधात्क्यचि चे॑ति ईत्त्वम्,अकृत्सार्वे॑ति दीर्गश्च न ।सुम्नये॑ति क्यजन्तादुप्रत्ययः । अतो लोपः ।
क्याच्छन्दसिः॥ क्य इति क्यच्क्यष्कयङं सामान्येन निर्देश इति। सूत्रे वृतौ च ककारानुबन्धवतो धातुसंज्ञानिमितस्य प्रत्ययस्योपलक्षणात् कण्ड्वादियकोऽपि ग्रहणम्, तेन भुरण्युः तुरण्यवोऽङ्गिरसो नक्षत्रसपर्येम सपर्यव इत्यादि भवति। भाषायां च सुम्नयुशब्द उणादिषु मृगय्वादिषु पाठाद् द्रष्टव्यः। मित्रयुरिति।'क्यचि च' इतीत्वम्, ठकृत्सार्वधातुकयोःऽ इति दीर्घत्वं च न भवति,'न च्छन्दस्यपुत्रस्य' इति निषेधात्॥