विन्दुरिच्छुः

3-2-169 वन्दुः इच्छुः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु उः

Kashika

Up

index: 3.2.169 sutra: विन्दुरिच्छुः


विदेर्नुमागमः, इषेः छत्वमुकारश्च प्रत्ययो निपात्यते तच्छीलादिषु कर्तृषु। वेदनशीलो विन्दुः। एषणशील इच्छुः।

Siddhanta Kaumudi

Up

index: 3.2.169 sutra: विन्दुरिच्छुः


वेत्तेर्नुम् एषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दः । इच्छति इच्छुः ॥

Balamanorama

Up

index: 3.2.169 sutra: विन्दुरिच्छुः


विन्दुरिच्छुः - विन्दुरिच्छुः । वेत्तेरिति । 'विद ज्ञाने' इत्यस्यादुप्रत्यये प्रकृतेर्नुमागमः । इषु इच्छायामित्यस्मादुप्रत्यये षकारस्य छत्वं च निपात्यते इत्यर्थः । वेत्तीति । धातुप्रदर्शनम् । तच्छील इति । वेदनशील इत्यर्थः । इच्छतीति ।इषु इच्छाया॑मिति धातुप्रदर्शनम् । एषणशील इत्यर्थः ।

Padamanjari

Up

index: 3.2.169 sutra: विन्दुरिच्छुः


विन्दुरिच्छुः॥ विदेरिति। ज्ञानार्थस्य ग्रहणं नेतरेषाम्, अभिधानात्, निपातनाद्वा। बिन्दुशब्दस्तु पवर्गादिः'बिदि अवयवे' इत्यस्मादौणादिके'मृगय्वादयश्च' इत्युप्रत्यये भवति। वकारस्यच्छन्दसि पक्षे भकार इष्यते - वैश्वदेवा भिन्दव इति। इषेरिति। ठिषु इच्छायाम्ऽ इत्यस्य। ठिषु गतौऽ ठिष ठाभीक्ष्ण्येऽ इत्येतयोस्तु पूर्ववदग्रहणम्॥