नमिकम्पिस्म्यजसकमहिंसदीपो रः

3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपः रः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नम्यादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु रः प्रत्ययो भवति। नम्रं काष्ठम्। कम्प्रा शाखा। स्मेरं मुखम्। अजस्रं जुहोति। कम्रा युवतिः। हिंस्रं रक्षः। दीपं्र काष्ठम्। अजस्रमिति <<जसु मोक्षणे>> नञ्पूर्वो रप्रत्ययान्तः क्रियासातत्ये वर्तते॥

Siddhanta Kaumudi

Up

नम्रः । कम्प्रः । स्मेरः । जसिर्नञ्पूर्वः क्रियासातत्ये वर्तते । अजस्रम् । सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नमिकम्पिस्म्यजसकमहिंसदीपो रः>> - नमिकम्पि । नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप् एषां द्वन्द्वात्पञ्चम्येकवचनम् । एभ्यः सप्तभ्यो रप्रत्ययः स्यात्तच्छीलदिष्वित्यर्थः । अजसधातोर्धातुपाठेऽदर्शनादाह — जसिर्नञ्पूर्व इति ।जसु मोक्षणे॑अयं नञ्पूर्वः शक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः । निपातनाद्धातुना नञः समासे 'नलोपो नञः' इति नलोपः ।

Padamanjari

Up

नमिकम्पिस्म्यजसकमहिंसदीपो रः॥ अजसेत्यकार आगन्तुकः। क्रियासातत्ये इति। क्रियाणामविच्छेदेन प्रवृत्तिःऊउक्रियासातत्यम्। कथं तर्हि अग्निषु प्रयोगः - अजस्रानजुहूत इन्धीरन्निति, आधानाद् द्वादशरात्रमजस्रा इति? अत्राप्यजस्रजागरणादजस्राः॥