यजजपदशां यङः

3-2-166 यजजपदशां यङः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ऊकः

Kashika

Up

index: 3.2.166 sutra: यजजपदशां यङः


यजादीनां यङन्तानाम् ऊकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। यायजूकः। जञ्जपूकः। दन्दशूकः।

Siddhanta Kaumudi

Up

index: 3.2.166 sutra: यजजपदशां यङः


एभ्यो यङ्न्तेभ्यः ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्दशूकः ॥

Balamanorama

Up

index: 3.2.166 sutra: यजजपदशां यङः


यजजपदशां यङः - यजजपदशां यङः । यज, जप,दश एषां त्रयाणां द्वन्द्वः । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । तच्छीलादिष्वित्येव । ननु दंशेर्नोपधत्वनात्कथं दशामिति निर्देश इत्यत आह — भाविनेति । ऊके कृतेसति भविष्यतो नलोपस्याऽत्र निर्देश इति यावत् । यायजूक इति । 'यस्य हलः' इति यलोपः । 'अतो लोपः' 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः । जञ्जपूक इति ।जपजभदहदशभञ्जपशां चे॑त्यभ्यासस्य नुक् । एवं दन्दशूकः ।