3-2-165 जागुः ऊकः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
जागर्तेरूकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जागरूकः॥
जागर्तेरूकः स्यात् । जागरूकः ॥
<<जागुरूकः>> - जागुरूकः । 'जागृ' इत्यस्य जागुरित पञ्चम्यन्तं पदम् । तदाह — जागर्तेरिति । तच्छीलादिष्वित्येव । जागरूक इति । ऋकारस्य गुणः, रपरत्वम् । सिद्धरूपं तु न निपातितम्, उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात् ।