विदिभिदिच्छिदेः कुरच्

3-2-162 विदिभिदिच्छिदेः कुरच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ज्ञानार्थस्य विदेः ग्रहणं न लाभार्थस्य स्वभावात्। विदादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु कुरच् प्रत्ययो भवति। विदुरः पण्डितः। भिदुरं काष्ठम्। छिदुरा रज्जुः। भिदिच्छिद्योः कर्मकर्तरि प्रयोगः॥ व्यधेः संप्रसारणं कुरच्च वक्तव्यः॥ विधुरः॥

Siddhanta Kaumudi

Up

विदुरः । भिदुरम् । छिदुरम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विदिभिदिच्छिदेः कुरच्>> - विदिभिदि । तच्छीलादिष्वित्येव । विदेज्र्ञानार्थस्य ग्रहणं, नतु लाभार्थस्य, व्याख्यानादित्याहुः । विदुर इत्यादौ कित्त्वान्न लघूपधगुणः ।

Padamanjari

Up

विदिबिदिच्चिदेः कुरच्॥ न लाभार्थस्येति। ज्ञानार्थस्येदमुपलक्षणं न लाभार्थस्येत्यर्थः। कुत इत्याह - स्वभावादिति। तेन'लुग्विकरणालुग्विकरणयोरित्येतदपि न प्रवर्तत इत्यर्तः। विदिभिदिच्छिदेर्ङिदिति प्रकृतस्यैव घुरचो ङ्त्वाइतिदेशेनैव सिद्धे'प्रत्ययान्तरकरणमातिदेशिकं ङ्त्विमनित्यम्' इति ज्ञापनार्थम्। तेन'धू विधूनने' कुटादिः, ततः ठर्तिलूधू' इतीत्रप्रत्ययो कृते ङित्कार्य न भवति। केचितु - धुवित्रमित्येवेच्छन्ति, प्राणा वै धुवित्राणीति छान्दसं तदनुसारेण कल्पसूत्रेषु प्रयोगः। कर्मकर्तरीति। माघस्तु शुद्धे कर्तरि प्रयुङ्क्ते -'गुरुमत्सरच्छिदुरया दुरयाचितमङ्गना' इति॥