3-2-160 सृघस्यदः क्मरच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
सृ घसि अद् इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्मरच् प्रत्ययो भवति। सृमरः। घस्मरः। अद्मरः॥
सृमरः । घस्मरः । अद्मरः ॥
<<सृघस्यदः क्मरच्>> - सृघस्यदः । सृ, घसि, अद् एषां द्वन्द्वात्पञ्चमी । घसिः प्रकृत्यन्तरम् ।
सृघस्यदः क्मरच्॥ घसिः प्रकृत्यन्तरमस्ति॥