3-2-159 दाधेट्सिशदसदः रुः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
दा धेट् सि शद सद इत्येतेभ्यो रुः प्रत्ययो भवति। दारुः। धारुर्वत्सो मातरम्। <<न लोकाव्यय०>>२.३.६९ इत्युकारप्रश्लेषात् षष्ठी न भवति। सेरुः। शद्रुः। सद्र्रुः॥
दारुः । धारुः । सेरुः । शद्रुः । सद्रुः ॥
<<दाधेट्सिशदसदो रुः>> - दाधेट् । दा, धेट्, सि, शद्, सद् एषां द्वन्द्वात्पञ्चमी । एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः ।
दाधेट्सिशदसदो रुः॥'गामादाग्रहणेष्वविशेषः' इति दारूपाणां यथाभिधानं ग्रहणम्। धेट् पाने,'षिञ् बन्वने' ,'शद्लृ शातने' ,ठ्षद्लृ विशरणगत्यवसादनेषु॥