स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्

3-2-158 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Kashika

Up

index: 3.2.158 sutra: स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्


स्पृह ईप्सायाम्, ग्रह ग्रहणे, पत गतौ, चुरादौ अदन्ताः पठ्यन्ते। दय दानगतिरक्षणेषु। द्रा कुत्सायां गतौ, निपूर्वस् तत्पूर्वश्च, तदो नकारान्तता च निपात्यते। डुधाञ् श्रत्पूर्वः। एतेभ्यस् तच्छीलादिषु कर्तृषु आलुच् प्रत्ययो भवति। स्पृहयालुः। गृहयालुः। पतयालुः। दयालुः। निद्रालुः। तन्द्रालुः। श्रद्धालुः। आलुचि शीङो ग्रहणं कर्तव्यम्। शयालुः।

Siddhanta Kaumudi

Up

index: 3.2.158 sutra: स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्


आद्यास्त्रयश्चुरादावदन्ताः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तत्पूर्वो द्रा । तदो नान्तत्वं निपात्यते । तन्द्रालुः ।<!शीङो वाच्यः !> (वार्तिकम्) ॥ शयालुः ॥

Balamanorama

Up

index: 3.2.158 sutra: स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्


स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् - स्पृहिगृहि । स्पृहि, गृहि,पति, दयि, निद्रा, तन्द्रा, श्रद्धा, एभ्यः सप्तम्य आलुच् स्यात्तच्छीलादिष्वित्यर्थः । स्पृहयालुरिति । स्पृहधातोरदन्तादालुच् ।अयामन्ते॑ति णेरय् णिलोपापवादः । अल्लोपस्य स्थानिवत्त्वान्न लघूपधगुणः । एवं गृहयालुः । पतयालुरित्यत्र तु अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः । निद्रालुरिति ।द्रा कुत्सायां गतौ॑ निपूर्वादालुच् । तत्पूर्वो द्रेति । तच्छब्दपूर्वो द्राधातुस्तन्द्रेत्यनेन गृह्रत इत्यर्थः । श्रद्धालुरिति ।श्र॑दित्यव्ययं, तत्पूर्वाद्धातोरालुच् । शीङो वाच्य इति । आलु॑जिति शेषः ।

Padamanjari

Up

index: 3.2.158 sutra: स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्


स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्॥ चुरादावदन्ताः पठ।ल्न्त इति। तेन णौ कृतस्यातो लोपस्य स्थानिवद्भावात्पतयतेः ठत उपधायाःऽ इति वृद्धिर्न भवति, स्पृहयतिगृहयत्योश्च लघूपधगुणो न भवतीति भावः। श्रत्पूर्वो धाञिति। धेटस्तु श्रत्पूर्वस्याप्रयोग एव। अथ किमर्थमालुज्विधीयते, न लुजेवोच्येत? का रूपसिद्धिः? स्पृहयालुः शपि कृते ठतो दीर्घो यञिऽ इति दीर्घो भविष्यति? तत्र हि'तुरुस्तुशम्यमः सार्वधातुके' इति सार्वधातुकग्रहणमनुवर्तते, न तु तिङ्ग्रहणम्, लकारस्येत्संज्ञाप्रयोजनाभावान्न भविष्यति, यकारादित्वाद्वा। किं यकारो न श्रूयते? लुप्तनीर्दिष्टो यकारः, एवमपि श्रद्धालुर्न सिद्ध्यति, कथम्? शपः श्लुर्द्विर्वचनम्,'श्नाभ्यस्तयोरातः' श्रद्दध्लुरिति प्राप्नोति? अथापि'संज्ञापूर्वको विधिरनित्यः' इति द्विर्वचनं न प्रवर्तिष्यत इत्युच्येत? एवमपि ज्ञापनार्थमालुज् विधीयते, एतज् ज्ञापयति - यत्रालुचैव रूपसिद्धिस्ततोऽप्ययं भवतीति। तेनालुचि शीङे ग्रहणमित्येतन्न वक्तव्यं भवति॥