जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च

3-2-157 जि दृ क्षि वि श्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जि जये। दृङादरे। क्षि क्षये, क्षि निवासगत्योः इति द्वयोरपि ग्रहणम्। प्रसू इति षू प्रेरणे इत्यस्य् ग्रहणम्। जिप्रभृतिभ्यो धातुभ्यः इनिः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जयी। दरी। क्षयी। विश्रयी। अत्ययी। वमी। अव्यथी। अभ्यमी। परिभवी। प्रसवी।

Siddhanta Kaumudi

Up

जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च>> - जिदृक्षि । जि, दृ, क्षि, विश्रि, इण्, वम, अव्यथ, अभ्यम, परिभू, प्रसू, एषां दशानं द्वन्द्वः । जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां विपूर्वः । इण् गतौ । वमु उद्गिरणे । व्यथ भयसंचलनयोः — नञ्पूर्वः । निपातनान्नञो धातुना समासे 'न लोपो नञः' इति नकारलोपः । अमु गत्यादिषु- अभिपूर्वः । भू सत्तायाम् — परिपूर्वः । षू प्रेरणे प्रपूर्वः । एभ्य इनिः स्यात्तच्छीलादिष्वित्यर्थः । सूतिसूयत्योस्तु सानुबन्धकत्वान्नेह ग्रहणम् ।

Padamanjari

Up

जिद्दक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च॥'जी जये' जि अभिभवेऽ - द्वयोरपि ग्रहणम्,'द्दङ् आदरे' ,'श्रिञ् सेवायाम्' ',ठिण् गतौ'टुअवमुद्वमने' 'व्यथ भयचलनयोः' नञ्पूर्वः, नञः कृतलोपस्य निर्द्देशः, निपातनाच्च नञो धातुना समासः, ततो वलोपः, ततः प्रत्ययः। ठम रोगेऽ'भू सतायाम्' । द्वयोरपि ग्रहणमिति।'क्षिष् हिंसायाम्' इत्यस्य तु सानुबन्धकत्वादग्रहणम्। षू प्रेरण इत्यस्य ग्रहणमिति।'षूङ् प्राणिगर्भविमोचने' 'षूङ् प्राणिप्रसवे' इत्येतयोस्तु सानुबन्धकत्वादग्रहणम्। प्रजोरप्यत्रैव ग्रहणं कर्तव्यम्, एवं हि चकारो न वक्तव्यो भवति? तथा तु न कृमित्येव॥