3-2-156 प्रजोः इनिः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
प्रपूर्वाज् जवतेः तच्छीलादिषु कर्तृषु इनिः प्रत्ययो भवति। प्रजवी। प्रजविनौ॥
प्रजवी । प्रजविनौ । प्रजविनः ॥
<<प्रजोरिनिः>> - प्रजोरिनिः । जुः सौत्रो धातुः । प्रपूर्वादस्मादिनिप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । नकारादिकार उच्चारणार्थः ।
प्रजोरिनिः॥ इनेरिकारो नकारस्येत्संज्ञा मा भूदिति॥