3-2-154 लष पत पद स्था भू वृष हन कम गम शॄभ्य उकञ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
लषादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु उकञ् प्रत्ययो भवति। अपलाषुकं वृषलसंगतम्। प्रपातुका गर्भा भवन्ति। उपपादुकं सत्त्वम्। उपस्थायुका एनं पशवो भवन्ति। प्रभावुकमन्नं भवति। प्रवर्षुकाः पर्जन्याः। आघातुकं पाकलिकस्य मूत्रम्। कामुका एनं स्त्रियो भवन्ति। आगामुकं वाराणसीं रक्ष आहुः। किंशारुकं तीक्ष्णमाहुः॥
लाषुकः । पातुक इत्यादि ॥
<<लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्>> - लषपत । एभ्यो दशभ्य उकञ् स्यात्तच्छीलादिष्वर्थेषु । इत्यादीति । पादुकः । आतो युक् । स्थायुकः । भावुकः । वर्षुकः । घातुकः । 'हनस्तः' इति तत्वम् । 'हो हन्तेति' कुत्वम् । कामुकः । गामुकः । शारुकः ।
लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्॥ अपलाषुकमिति। अशोभनमित्यर्थः। नन्वत्र विशेषविहितत्वाद् ठपे च लषःऽ इति घिनुणा भाव्यम्, अयं तु केवलेऽन्योपसर्गपूर्वे च लषौ चरितार्थः, वाऽसरूपविधिनोकञ् भविष्यति? ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येततु प्रायिकमित्युक्तम्। आघातुकं पाकलिकस्य मूत्रमिति। पाकलो नाम गजानां व्याधिविशेषः, स यस्यास्ति स पाकलिकोः,'द्वन्द्वोपतापगर्ह्यात्' इतीनिरेव प्राप्नोति, व्रीह्यादिपाठान्न भवति। पाकलिको गजस्तस्य मूत्रं स्पृष्टमाघ्रातं वान्यान् गजान्हन्ति, एष तस्य स्वभावः। आगामुकं वाराणसी रक्ष आहुरिति। यः शापादिना रक्षोभूतः तं मोक्षार्थ वाराणसीं प्रत्यागमनशीलमाहुरित्यर्थः॥