सूददीपदीक्षश्च

3-2-153 सूददीपदीक्षः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु युच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सूद दीप दीक्ष इत्येतेभ्यश्च युच् प्रत्ययो न भवति। अनुदात्तेत्त्वात् प्राप्तः प्रतिषिध्यते। सूदिता। दीपिता। दीक्षिता। ननु च दीपेर्विशेषविहितो रप्रत्ययो दृश्यते, <<नमिकम्पिस्म्य — जसकमहिंसदीपो रः>>३.२.१६७ इति। स एव बाधको भविष्यति, किं प्रतिषेधेन? वासरूपेण युजपि प्राप्नोति। ताच्छीलिकेषु च वासरूपविधिर्नास्तीति प्रायिकमेतद् इत्युक्तम्। तथा च समावेशो दृश्यते — कम्रा युवतिः, कमना युवतिः। कम्प्रा शाखा, कम्पना शाखेति। सूदेर्युचि प्रतिषिद्धे कथं मधुसूदनो रिपुसूदन इति? अनित्योऽयं प्रतिषेध इति योगविभागाद् विज्ञायते। अथ वा मधुसूदनादयो नन्द्यादिषु द्रक्ष्यन्ते। <<कृत्यल्युटो बहुलम्>> ३.३.११३ इति ल्युडन्ता वा॥

Siddhanta Kaumudi

Up

युच् न स्यात् । सूदिता । दीपिता । दीक्षिता । नमिकम्पि - <{SK3147}> इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति ताच्छीलिकेषु वासरूपविधिर्नास्तीति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज् न । कथं मधुसूदनः । नन्द्यादिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सूददीपदीक्षश्च>> - सूददीप । सूद, दीप, दीक्ष, एषां द्वन्द्वात्पञ्चमी । युज्नेति । शेषपूरणमिदम् ।अनुदात्तेतश्चे॑ति प्राप्तो युच् प्रतिषिध्यते । नन्विह दीपग्रहणं व्यर्थं,नमिकम्पिस्म्यजसकमहिंसदीपोरः॑ इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः । नच वाऽसरूपविधिना तद्बाधः शङ्क्यः, ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत आह — नमिकम्पीति । रेणेति । रप्रत्ययेनेत्यर्थः । प्रायिकमिति । तथा चाऽत्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचो बाधासंभवादिह दीपेर्युचो निषेधोऽर्थवानिति भावः । तेनेति । ताच्छीलिकेऽपि क्वचिद्वासरूपविदेः सत्त्वादित्यर्थः । कम्ना कमनेति । इच्छाशीलेत्यर्थः । अत्रापिनमिकम्पी॑ति रेण युचः पक्षे बाध इति भावः । आक्षिपति — यदीति.यदिसूददीपदीक्षश्चे॑तिसूदेर्युच्प्रतिषिध्यते तदा 'मधुशूदन' इति कथमित्यन्वयः । समाधत्ते — नन्द्यादिरिति ।सूदि॑रिति सेषः । तथा चनन्दिग्रही॑ति ल्युप्रत्यय इति भावः ।

Padamanjari

Up

सूददीपदीक्षश्च॥'षूद क्षरणे' 'दीपी दीप्तौ' 'दीक्ष मौण्ड।ले' । ननुताच्छीलिकेषु वासरूपविधिर्नास्तीति ज्ञापितम्, तत्कथं वाऽसरूपेण युजिह प्राप्नोति? तत्राह - ताच्छीलिकेष्विति। प्रायिकत्वस्य चायमेव प्रतिषेधो लिङ्गम्, सर्वत्र वाऽसरूपविधेरभावे विशेषविहितेन रप्रत्ययेन बाधितत्वादेव युज् न भविष्यतीति प्रतिषेधोऽयमनर्थकस्स्यात्। तथा चेत्यादिना प्रायिकत्वस्य प्रयोजनं दर्शयति। नानेन प्रतिषेधेन युज्रयोरेव समावेशो ज्ञाप्यते, यथा भाष्ये प्रतिभासः, किं तर्हि? ज्ञापकस्यैव प्रायिकत्वम्। तेन'गन्ता खेट्ंअ विकत्थनः' इत्यपि भवति। एतच्च पूर्वमेवोक्तम्। अथ वा नन्द्यदिष्विति। योगविभागस्त्विदानीं वैचित्र्यार्थः॥