न यः

3-2-152 न यः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु युच्

Kashika

Up

index: 3.2.152 sutra: न यः


यकारान्तात् धातोः युच् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। क्नूयिता। क्ष्मायिता।

Siddhanta Kaumudi

Up

index: 3.2.152 sutra: न यः


यकारान्ताद्युच् न स्यात् । क्नूयिता । क्ष्मायिता ॥

Balamanorama

Up

index: 3.2.152 sutra: न यः


न यः - न यः । 'य' इति पञ्चम्यनतं धातुविशेषणं । तदन्तविधिः । तदाह — यकारान्तादिति । क्नूयिता । क्ष्मायितेति ।क्नुयी शब्दे उन्दन चटक्ष्मायी विधूनने॑ । अनुदात्तेतश्च हलादे॑रिति युच् निषिध्यते । तृनेव भवति ।

Padamanjari

Up

index: 3.2.152 sutra: न यः


नयः॥ ठय वय नय तय गतौऽ इति नयतेरनुदातेत्वादेव युचः सिद्धत्वान्नतस्येदं ग्रहणम्, किं तर्हि? प्रतिषेध एवेति मत्वाऽऽ - यकारान्तादिति। पूर्वेणेति। ठनुदातेतश्चऽ इत्यादिना। क्नूयिता, क्ष्मायितेति।'क्नूयी शब्दे' 'क्ष्मायी विधूनने' ॥