3-2-150 जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु युच्
जुप्रभृतिभ्यो धातुभ्यो युच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जु इति सौत्रो धातुः। जवनः। चङ्क्रमणः। दन्द्रमणः। सरणः। गर्धनः। ज्वलनः। शोचनः। लषणः। पतनः। पदनः। चलनार्थानां पदेश्च ग्रहणं सकर्मकार्थमिह। ज्ञापकार्थं च पदिग्रहणमन्ये वर्णयन्ति — <<ताच्छीलिकेषु मिथो वासरूपविधिर्नास्ति>> इति। तेनालंकृञस्तृन् न भवति, अलंकर्तेति। तथाहि — पदेरुकञा विशेषविहितेन सामान्यविहितस्य युचोऽसरूपत्वात् समावेशो भवेदेव, किमनेन विधानेन? ज्ञापकार्थं पुनर्विधीयते। प्रायिकं चैतज् ज्ञापकम्। क्वचित् समावेश इष्यत एव। गन्ता खेटं विकत्थनः॥
जु इति सौत्रो धातुर्गतौ वेगे च । जवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदिग्रहणं लषपतपत <{SK3134}> इत्युकञा बाधा माभूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृञस्तृन्न ॥
<<जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः>> - जुचङ्क्रम्य । जु, चङ्क्रम्य, दन्द्रस्य, सृ, गृधि, ज्वल, शुच, लष, पत, पद एषां दशानां द्वन्द्वात्पञ्चमी । एभ्यस्तच्छीलादिषु युच् स्यादित्यर्थः । धातुपाठे जुधातोरदर्शनादाह — सौत्र इति । चङ्क्रमण इति । यङन्ताद्युच् । 'यस्य हलः' इति यकारलोपः, अतो लोपः । एवं दन्द्रमणः, सरणः, गद्र्धनः, ज्वलनः, शोचनः, लषणः, पतनः, पदन इत्यप्युदाहार्यम् । पूर्वेणेति ।अनुदात्तेतश्च हलादे॑रित्यनेनेत्यर्थः । तेनेति । उकञ् ह्रयं तच्छीलाधिकारस्थः । तत्र वाऽसरूपविधिनैव उकञाअनुदात्तेतश्च हलादे॑रिति विहितस्य पदेर्युचो बाधो न भविष्यतीति 'जुचङ्क्रम्ये' ति युज्विधिरनर्थकः स्यादतस्तातच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति विज्ञायते इत्यर्थः ।निन्दहिंसे॑ति सूत्रेतच्छीलादिषु वासरूपविधिना तृजादयो ने॑ति ज्ञापितम् । इह तुताच्छीलिकेषु परस्परं वासरूपविधिर्नास्ती॑ति ज्ञाप्यते इति न पौनरुक्त्यम् । तृन्नेति । अलम्पूर्वात्कृञोऽलङ्कृञित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचातृ॑न्निति सामन्यविहितस्तच्चीलाधिकारस्थो बाध्यते इत्यर्थः ।
जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः॥'जु' इति सौत्रो धातुः। गतिवचन इत्येके। वेगवचन इत्यन्ये।'क्रमु पादविक्षेपे' 'द्रम हम्म मीमृ गतौ' 'सृ गतौ' 'गृधु अभिकांक्षायाम्' 'ज्वल दीप्तौ' 'शुच शोके' 'लष इच्छायाम्' 'शल हुल पत्लृ गतौ' 'पद गतौ' । ननु चात्र चंक्रम्यप्रभृतयः केचिच्चलनार्थः पदिस्त्वनुदातेत्, तेभ्यो यथायोगं पूर्वसूत्राभ्यामेव युच् सिद्धः, किमर्थमिह ग्रहणमित्यत्राह - चलनार्थानामित्यादि। प्रपूर्वः पदिः सकर्मकः। ज्ञापकार्थमिति। ज्ञापनं ज्ञापकम्, भाष्यकारप्रयोगाद्भावे ण्वुल्। अन्ये पदिग्रणं वर्णयन्तीति। भाष्यकारादयः। ते हि मन्यन्ते - सकर्मकात्पदेर्युचा न भवितव्यम्; अनिभाधानादिति। यथाह - पदिग्रहणमनर्थकमनुदातेतश्च हलादेरिरि सिद्धत्वात्? वासरूपनिवृत्यर्थ त्विति। ताच्छीलिके वाऽसरूपविधिर्नास्तीति निन्दादिसूत्रे तच्छीलादिषु कर्तृषु वाऽसरूपविधिना तृजादयो न भवन्तीति ज्ञापितम्। इह तु ताच्छीलिकेषु परस्परं वाऽसरूपविधिर्नास्तीति ज्ञाप्यते। अलंकर्तेति। एवमलंकृञास्तृन्न भवतीत्यर्थः। यथा तु पदिग्रहणं ज्ञापकं तथा दर्शयति - तथा हीति। उकञा विशेषविहितेनेति।'लशेषविहितेनेति।'लषपतपद' इत्यादिना। प्रायिकं चैतदिति। एतच्च'सूददीपदीक्षश्च' इत्यत्र वक्ष्यते। गन्तेति। गमेर्लषपतपदाद्यौकञ्विषये तृन् भवति। विकत्थन इति।'वौ कषलष' इति घिनुण्विषये' नुदातेल्लक्षणो युज् भवति॥