अनुदात्तेतश्च हलादेः

3-2-149 अनुदात्तेतः च हलादेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु अकर्मकात् युच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनुदात्तेद् यो धातुर्हलादिरकर्मकः, ततश्च युच् प्रत्ययो भवति। वर्तनः। वर्धनः। अनुदात्तेत इति किम्? भविता। हलादेरिति किम्? एधिता। आदिग्रहणं किम्? जुगुप्सनः। मीमांसनः। अकर्मकादित्येव — वसिता वस्त्रम्॥

Siddhanta Kaumudi

Up

अकर्मकाद्युच् स्यात् । वर्तनः । वर्धनः । अनुदात्तेतः किम् । भविता । हलादेः किम् । एधिता । अकर्मकात्किम् । वसिता वस्त्रम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अनुदात्तेतश्च हलादेः>> - अनुदात्तेतश्च । आदिग्रहणाऽभावे हलन्तादित्यर्थः स्यात्, ततश्च जुगुप्सन इति न स्यात्, सन्नन्तस्य हलन्तत्वाऽभावात् । अस्ति चाऽनुदात्तेत्वं सन्नन्तस्य, 'गुप' इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाऽभावेन सन्नन्तार्थत्वात् ।

Padamanjari

Up

अनुदातेतश्च हलादेः॥ जुगुप्सन इति।'गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्' इत्युक्तत्वाद् ठवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतिऽ इति समुदायस्यानुदातेत्वम्। तत्रासत्यादिग्रहणे तदन्तविधिः स्यात्, ततश्चात्र न स्यात्, अतस्तदन्तविधिर्मा बूदित्येवमर्थमादिग्रहणम्॥