चलनशब्दार्थादकर्मकाद्युच्

3-2-148 चलनशब्दार्थात् अकर्मकात् युच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Kashika

Up

index: 3.2.148 sutra: चलनशब्दार्थादकर्मकाद्युच्


चलनार्थेभ्यः शब्दार्थेभ्यश्च अकर्मकेभ्यो धातुभ्यस् तच्छीलादिषु कर्तृषु युच् प्रत्ययो भवति। चलनः। चोपनः। शब्दार्थेभ्यः शब्दनः। रवणः। अकर्मकादिति किम्? पठिता विद्याम्।

Siddhanta Kaumudi

Up

index: 3.2.148 sutra: चलनशब्दार्थादकर्मकाद्युच्


चलनार्थाच्छब्दार्थाच्च युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । अकर्मकात्किम् । पठिता विद्याम् ॥

Balamanorama

Up

index: 3.2.148 sutra: चलनशब्दार्थादकर्मकाद्युच्


चलनशब्दार्थादकर्मकाद्युच् - चलन । शब्दन इति । 'शब्द शब्दने' चुरादिः । शब्दनं - शब्दोच्चारणम् । धात्वर्थोपसङ्ग्रहादकर्मकः ।

Padamanjari

Up

index: 3.2.148 sutra: चलनशब्दार्थादकर्मकाद्युच्


चलनशब्दार्थादकर्मकाद् युच्॥ चोपन इति।'चुप मन्दायां गतौ' । शब्दन इति।'शब्द शब्दने' चुरादिः, शब्दप्रातिपदिकाद्वा'तत्करोति' इति णिच्॥