देविक्रुशोश्चोपसर्गे

3-2-147 देविक्रुशोः च उपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु वुञ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

देवयतेः क्रुशेश्चोपसर्ग उपपदे वुञ् प्रत्ययो भवति। आदेवकः। परिदेवकः। आक्रोशकः। परिक्रोशकः। उपसर्ग इति किम्? देवयिता। क्रोष्टा॥

Siddhanta Kaumudi

Up

आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता । क्रोष्टा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<देविक्रुशोश्चोपसर्गे>> - देवीक्रुशोः । देवीति चुरादिण्यन्तस्य,दिवु क्रीडा॑इत्यस्य च ग्रहणम् । उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः ।

Padamanjari

Up

देविक्रुशोश्चोपसर्गे॥ देवयतेरिति। दीव्यतेर्हेतुमण्णिजन्तस्य,'दिवि कूजने' इत्यस्य चुरादिण्यन्तस्य च॥