निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ्

3-2-146 निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

निन्दादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु वुञ् प्रत्ययो भवति। पञ्चम्यर्थे प्रथमा। <<क्लिश उपतापे>> <<क्लिशू विबाधने>> द्वयोरपि ग्रहणम्। निन्दकः। हिंसकः। क्लेशकः। खादकः। विनाशकः। परिक्षेपकः। परिराटकः। परिवादकः। व्याभाषकः। असूयकः। ण्वुलैव सिद्धे वुञ्विधानं ज्ञापनार्थम् — ताच्छीलिकेषु वासरूपन्यायेन तृजादयो न भवन्ति (महाभाष्य २.१३३) इति॥

Siddhanta Kaumudi

Up

पञ्चम्यर्थे प्रथमा । एभ्यो वुञ् स्यात् । निन्दकः । हिंसक इत्यादि । ण्वुला सिद्धे वुञ्वचनं ज्ञापकं तच्छीलादिषु वासपरूपन्यायेन तृजादयो नेति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि- व्याभाषासूयो वुञ्>> - निन्दहिंस । निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय एषां दशानां द्वन्द्वः । पञ्चम्यर्थे प्रथमेति । सौत्रं पुंस्त्वमेकवचनं वेति भावः । विनाशेति — विपूर्वस्य नशेण्र्यन्तस्य भाविना णिलोपेन निर्देशः । शकारादकार उच्चारणार्तः । केचित्तुविनाशी॑ति ण्यन्तमेव पठन्ति । परिवादीति — तु ण्यन्तमेव । असूयेति — कण्ड्वदियगन्तः । इत्यादीति । क्लेशकः, खादकः,विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः । ननुअसूयो वु॑ञिति असूयतेरेव वुञ्विधीयतां , न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः । लित्स्वरञित्स्वरयोस्तु नास्ति विशेषः, उभयथाप्याद्युदात्तत्वात् । असूयतेस्तु ण्वुलिलिती॑ति प्रत्ययात्पूर्वं उकार उदात्तः । वुञि तुञ्नित्यादिर्नित्य॑मिति धातोरकार उदात्त इति विशेषः । तस्मादसूयतेरेव वुञ्विधिरिति युक्तमित्यत आह — ण्वुला सिद्धे इति । तृजादयो नेतीति । तच्छीलादिषु वासरूपविदिस्त्तवे हि तद्विषये तृनि प्राप्ते वुञ्विधिरर्थवान् । अतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भावः । इदं च प्रायिकम् । तत्फलं तु ऊत्पूर्वान्मदेरलङ्कृञादिसूत्रेण इष्णुजुक्तो, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् ।

Padamanjari

Up

निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिधादिव्याभाषासूयो वुञ् ॥'णिदि कुत्सायाम्' 'तृह हिसि हिंसायाम्' 'क्लिश विबाधने' 'खाद्द भक्षणे' 'णश अदर्शने' ण्यन्तः, भाविना णिलोपेन निर्देशः, अकारस्त्वागन्तुकः। केचितु विनाशीति ण्यन्तमेव पठन्ति। क्षिपिरटी उक्तार्थौ, वदिर्ण्यन्तः,'भाष व्यक्तायां वाचि' ,असूयतिः कण्ड्वादियगन्तः। अथ किमर्थ निन्दादिभ्यो वुञ् विधीयते, न'ण्वुल्तृचौ' इति ण्वुलैव सिद्धम्, तदेव रूपम्, स्वरोऽप्यसूयतिमेकं वर्जयित्वान्यत्र स एव; असूयतेस्तु ण्वुलि प्रत्ययात्पूर्वमुदातं स्यात्, वुञि तु'ञ्नित्यादिः' इति। तस्मादेवैकस्माद् वुञ् विधेयः, अन्येभ्यस्तु ण्वुलैव सिद्धम्, योऽयं तच्छीलादिषु तृन्विधीयते स बाधकः प्राप्नोति, वाऽसरूपविधिना ण्वुलपि भविष्यति, तत्राह - ण्वुलैव सिद्ध इति। तृजादयो न भवन्तीति। न केवलं ण्वुल्विषयमेव ज्ञापकम्, किं तर्हि? प्रत्ययमात्र विषयमित्यर्थः॥