प्रे लपसृद्रुमथवदवसः

3-2-145 प्रे लपसृद्रुमथवदवसः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु घिनुण्

Kashika

Up

index: 3.2.145 sutra: प्रे लपसृद्रुमथवदवसः


प्रे उपपदे लपादिभ्यः घिनुण् भवति। प्रलपी। प्रसारी। प्रद्रावी। प्रमाथी। प्रवादी। प्रवासी। वसः इति वस निवासे इत्यस्य ग्रहणं नाच्छादनार्थस्य, लुग्विकरणत्वात्।

Siddhanta Kaumudi

Up

index: 3.2.145 sutra: प्रे लपसृद्रुमथवदवसः


प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ॥

Balamanorama

Up

index: 3.2.145 sutra: प्रे लपसृद्रुमथवदवसः


प्रे लपसृद्रुमथवदवसः - प्रे लप । लप, सृ, द्रु, मथ, वद, वस्, एषां षण्णां द्वनद्वात्पञ्चमी । प्रे उपपदे एभ्यो घिनुण् स्यात्ताच्छील्यादिष्वित्यर्थः ।

Padamanjari

Up

index: 3.2.145 sutra: प्रे लपसृद्रुमथवदवसः


प्रे लपसृद्रुमथवदवसः॥ रप लप व्यक्तायां वाचिऽ'सृ गतौ,' ठ्द्रु गतौऽ,'मथे विलोडने' ॥