3-2-144 अपे च लषः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु घिनुण् वौ
<<लष कान्तौ>> अस्माद् धातोरप उपपदे चकाराद् वौ च घिनुण् भवति। अपलाषी। विलाषी॥
चाद्वौ । अपलाषी । विलाषी ॥
<<अपे च लषः>> - अपे च लषः । चाद्वाविति । वौ उपपदेऽपीत्यर्थः । अपे वौ च उपपदे लषोर्घिनुणित्यर्थः । ताच्छील्यादिष्वेव ।