वौ कषलसकत्थस्रम्भः

3-2-143 वौ कषलसकत्थस्रम्भः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु घिनुण्

Kashika

Up

index: 3.2.143 sutra: वौ कषलसकत्थस्रम्भः


कष हिंसार्थः, लस श्लेषणक्रीडनयोः, कत्थ श्लाघायाम्, स्रम्भु विश्वासे, एतेभ्यो धातुभ्यो विशब्दे उपपदे घिनुण् प्रत्ययो भवति। विकाषी। विलासी। विकत्थी। विस्रम्भी।

Siddhanta Kaumudi

Up

index: 3.2.143 sutra: वौ कषलसकत्थस्रम्भः


विकाषी । विलासी । विकत्थी । विस्रम्भी ॥

Balamanorama

Up

index: 3.2.143 sutra: वौ कषलसकत्थस्रम्भः


वौ कषलसकत्थस्रम्भः - वौ कषलस । कष, लस, कत्थ, रुआम्भ् एषां द्वन्द्वात्पञ्चमी । एभ्यो घिनुण् स्यात्ताच्छील्यादिष्वित्यर्थः ।