3-2-142 सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु घिनुण्
घिनुणनुवर्तते। संपृचादिभ्यो धातुभ्यो घिनुण् भवति तच्छीलादिषु। <<पृची संपर्के>> इति रुधादिर्गृह्यते, न त्वदादिर्लुग्विकरणत्वात्। परिदेविर्भ्वादिर्गृह्यते <<देवृ देवने>> इति। <<क्षिप प्रेरणे>> दिवादिस्तुदादिश्च सामान्येन गृह्यते। <<युज समाधौ>> दिवादिः, <<युजिर् योगे>> रुधादिः। द्वयोरपि ग्रहणम्। <<रञ्ज रागे>> इत्यस्य निपातनादनुनासिकलोपः। संपर्की। अनुरोधी। आयामी। आयासी। परिसारी। संसर्गी। परिदेवी। संज्वारी। परिक्षेपी। परिराटी। परिवादी। परिदाही। परिमोही। दोषी। द्वेषी। द्रोही। दोही। योगी। आक्रीडी। विवेकी। त्यागी। रागी। भागी। अतिचारी। अपचारी। आमोषी। अभ्याघाती॥
घिनुण् स्यात् । संपर्की । अनुरोधी । आयामी । आयासी । परिसारी । संसर्गी । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही । दोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भागी । अतिचारी । अपचारी । आमोषी । अभ्यघाती ॥
<<संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज- परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह- दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज- भजातिचरापचरामुषाभ्याहनश्च>> - संपृचानु । संपृच, अनुरुध, आडम, आडस, परिसृ, संसृज, परिदेवि, संज्वर, परिक्षिप, परिरट, परिवद, परिदह, परिमुह, दुष, द्विष, द्रुह, दुह, युज, आक्रीड, विविच, त्यज, रज, भज, तिचर, अपचर, आमुष , अभ्याहन्, एषां सप्तविंशतेद्र्वन्द्वात्पञ्चमी । संपर्कीति ।चजो॑रिति कुत्वम् । अनुरोधीत्यादौ लघूपधगुणः । अदुपधेषु उपधावृद्धिः । परिदेवीति । 'देवृ देवने' भ्वादिः । दीव्यतेस्तु ण्यन्तस्य ग्रहणं , लाक्षणिकत्वात्, अण्यन्तैः साहचर्याच्च । अभ्याघातीति ।हनस्तोऽचिण्णलो॑रिति तत्वम् । 'हो हन्ते' रिति कुत्वम् ।
सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रहदुहयुजाक्रीविविचत्यजरजभजातिचराचरामुषाभ्यहनश्च॥'पुची संपर्केअ' , रुधिर् आवरणेऽ; ठनो रुध कामेऽ इत्यस्य तु दैवादिकस्याग्रहणम्; पृचिना साहचर्यात्। अनुना सह पठितस्य दैवादिकस्य ग्रहणमित्यन्ये।'यम उपरमे' 'यसु प्रयत्ने' ,'सृ गतौ' 'सृज विसर्गे' , देवृ देवनेऽ'ज्वर रोगे' 'क्षिप् प्रेरणे' ,रट परिभाषणेऽ'वद व्यक्तायां वाचि' 'दह भस्मीकरणे' 'मुह वैचित्ये' 'दुष वैकृत्ये' ,द्विष अप्रीतौऽ'द्रुह जिघांसायाम्' 'दुह प्रपूरणे' 'युजिन् योगे' 'क्रीड्ःअ विहारे,'विचिर्पृथग्भावे' ,ठ्त्यज हानौ' ,रञ्ज रागेऽ'भज सेवायाम्' 'चर गत्यर्थः,'मुष स्तेये' ,ठ्हन हिसागत्योः' । परिदेविर्बूवादिरिति। गृह्यते इति सम्बन्धः। क्रीडार्तस्य तु ण्यन्तस्याग्रहणम्, अण्यन्तैः साहचर्यात्, प्रतिपदोक्तत्वाच्च। अत एव'दिव परिकूजन' इत्यस्य चौरादिकस्यापि न भवति। संपर्कीति।'चजोः कु घिण्ण्यतोः' इति कुत्वम्। येऽत्र संपूर्वाः तेषां द्वन्द्वं कृत्वा'सम एतेभ्यः' इति वक्तव्यम्, एवमाङ्पूर्वेषु परिपूर्वेषु च, एवं सिद्धे यत्प्रतिपदं पठति तस्यैतत्प्रयोजनम् - उपातादएव रूपाद्यथा स्यात्, उपसर्गान्तरयुक्तान्मा भूदिति॥