शमित्यष्टाभ्यो घिनुण्

3-2-141 शमित्यष्टाभ्यो घिनुण् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इतिशब्द आद्यर्थः। शमादिभ्यो धातुभ्योऽष्टाभ्यस्तच्छीलादिषु कर्तृषु घिनुण् प्रत्ययो भवति। <<शमु उपशमे>> इत्यतः प्रभृति <<मदी हर्षे>> इत्येवमन्तः शमादिर्दिवाद्यन्तर्गणः। घकार उत्तरत्र कुत्वार्थः। उकार उच्चारणार्थः। णकारो वृद्ध्यर्थः। शमी। तमी। दमी। श्रमी। भ्रमी। क्षमी। क्लमी। प्रमादी। उन्मादी। अष्टाभ्य इति किम्? असिता॥

Siddhanta Kaumudi

Up

उकार उच्चारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा शमिनीतरेत्यत्र गितश्च <{SK987}> इति ह्रस्वविकल्पः । न चैवं शमिनावित्यादौ नुम्प्रसङ्गः । झल्ग्रहणमपकृष्य झन्तानामेव तद्विधानात् । नोदात्तोपदेशस्य - <{SK2763}> इति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्षमी । क्लमी । प्रमादी । उत्पूर्वान्मदेः अलंकृञादिसूत्रेणेष्णुजुक्तो वासरूपविधिना घिनुणपि । उन्मादी । ताच्छीलिकेषु वासरूपविधिर्नास्तीति तु प्रायिकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शमित्यष्टाभ्यो घिनुण्>> - शमित्यष्टाभ्यः । इति शब्द आदिपर्यायः । शमादयो दिवादौ स्थिताः । तेभ्योऽष्टाभ्यो घिनुण् स्यात्तच्छीलादिष्वित्यर्थः । घित्त्वमुत्तरसूत्रार्थम् ।अकर्मकेभ्य एव घिनु॑णिति भाष्यम् । शमिनितरा शमिनीतरेति । शमिन्शब्दात्स्त्रियां नान्तलक्षणङीबन्तात्तरबन्ताट्टाप् । ह्रस्वविकल्प इति । भाष्यमते उगित्त्वाद्ध्रस्वः । काशिकामते तु उगित्त्वाऽभावन्न ह्रस्वः । न च ह्रस्वाऽभावे 'तसिलादिषु' इति पुंवत्त्वं शङ्क्यं,संज्ञापूरण्योश्चे॑ति निषेधात् । ननु भाष्यरीत्या उगित्त्वाभ्युपगमे शमी शमिनौ इत्यादौउगिदचा॑मिति नुम् स्यादित्याशङ्क्य निराकरोति — न चैवमपि । झल्ग्रहणमपकृष्येति । 'नपुंसकस्य झलचः' इति उत्तरसूत्रादिति भावः । एतच्च प्रकृतसूत्रे, 'युवोरनाकौ' इति सूत्रे च भाष्ये स्पष्टम् । शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्क्याह — नोदात्तेति । प्रमादीति । प्रमादीति । मान्तत्वाऽभावान्न वृद्धिनिषेधः । ननु उत्पूर्वान्मदेरुन्मादीति कथं घिनुण्, अलङ्कृञादिसूत्रे उत्पूर्वान्मदेर्विशिष्य इष्णुचो विधानादित्यताअह — उत्पूर्वादित्यादिना । ननु कथमत्र ताच्छीलिके घिनुणि वाऽसरूपविधिप्रवृत्तिः,ताच्छीलिकेषु वाऽसरूपविधिर्नास्ती॑ति निषेधादित्यत आह — ताच्छीलिकेष्विति । इयं परिभाषानन्दहिंसे॑त्यादिवक्ष्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् । प्रायिकमिति । एतच्चसूददीपदीक्षश्चे॑ति दीपग्रहणादितिजुचङ्क्रम्यदन्द्रम्ये॑ति सूत्रे भाष्ये स्पष्टम् ।

Padamanjari

Up

शमित्यष्टाभ्यो घिनुण्॥ इतिशब्द आद्यर्थे इति। अनेकार्थत्वान्निपातानाम्। तत्र'शम्' इति आदिर्येषामिति बहुव्रीहौ सुपो लुक्,'शमु उपशमने' 'तमु काङ्क्षायाम्' 'दमु उपसमने' 'श्रमु तपसि खेदे च' 'भ्रमु अनवस्थाने' 'क्षमूष् सहने' 'क्लमु ग्लानौ' 'मदी हर्षे' । उकार उच्चारणार्थ इति। नानुबन्धः, अनुबन्धे हि सति शमिनौ शमिन इत्यत्र ठुगिदचाम्ऽ इति नुम् प्रसज्येत;शमिनितरा, शमिनितमेत्यत्र नद्याः शेषस्यान्यतरस्याम् ठुगितश्चऽ इत्यन्यतरस्यां ह्रस्वः स्यात्;'घरूपकल्पचेलड्' इति नित्यमिष्यते, तस्मान्नायमनुबन्धः, किं तूच्चारणार्थ इति व्याचक्षते। भाष्ये तु ठकार उगित्कार्यार्थोऽनुबन्ध एवऽ इति स्थितम्। तत्र ह्रस्वत्वं विकल्पेनेष्यते, न नित्यम्। नुम्विधौ तु झल्ग्रणमनुवर्तिष्यते, अझलन्तत्वान्न प्रविष्यति। शमीति।'नोदातस्य' इति वृद्धिप्रतिषेधः। उन्मादीति। ननु मादीत्यत्र चरितार्थमेतत्, उत्पूर्वात्वलंकृञादिसूत्रेण विशेषविहित इष्णुजेव प्राप्नोति, वाऽसरूपविधिना घिनुण् भविष्यति, ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येततु प्रायिकमिति वक्ष्यते। असितेति। ठसु क्षेपणेऽ,तृन्नेव भवति॥