3-2-140 त्रसिगृधिधृषिक्षिपेः क्नुः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
त्रसादिभ्यो धातुभ्यस्तच्छीलादिषु क्नुः प्रत्ययो भवति। त्रस्नुः। गृध्नुः। धृष्णुः। क्षिप्णुः॥
त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ॥
<<त्रसिगृधिधृषिक्षिपेः क्नुः>> - त्रसिगृधि ।तच्छीलादिषु कर्तृष्वि॑ति शेषः । त्रस्नुरिति ।नेड्वशी॑ति नेट् । गृध्नुः धृष्णुरित्यत्र कित्त्वान्न गुणः ।
त्रसिगृधिधृषिक्षिपेः क्नुः॥ त्रस्नुरिति।'नेड्वशि कृति' इतीट्प्रतिषेधः॥