स्तम्बकर्णयो रमिजपोः

3-2-13 स्तम्बकर्णयोः रमिजपोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्तम्ब कर्ण इत्येतयोः सुबन्तयोरुपपदयोर्यथासंख्यं रमिजपोर्धात्वोरच् प्रत्ययो भवति। रमेरकर्मकत्वाज् जपेः शब्दकर्मकत्वात् कर्म न संभवतीति सुपीत्येतदिहाभिसंबध्यते॥ हस्तिसूचकयोरिति वक्त व्यम् ॥ स्तम्बे रमत इति स्तम्बेरमो हस्ती। कर्णे जपतीति कर्णेजपः सूचकः। हस्तिसूचकयोरिति किम्? स्तम्बे रन्ता। कर्णे जपिता मशकः॥

Siddhanta Kaumudi

Up

।<!हस्तिसूचकयोरिति वक्तव्यम् !> (वार्तिकम्) ॥ स्तम्बे रमते स्तम्बेरमो हस्ती । तत्पुरुषे कृति - <{SK972}> इति, 'हलदन्तात्' <{SK966}> इति वा ङेरलुक् । कर्णेजपः सूचकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्तम्बकर्णयो रमिजपोः>> - स्तम्बकर्णयोः । रम जप अनयोरकर्मकत्वात्कर्मणीति न संबध्यते । जपेः शब्दोच्चारणार्तकस्य धात्वर्थोपसङ्ग्रहादकर्मकत्वं बोध्यम् । दर्भादितृणनिचयः - स्तम्बः । सूचकः - पिशुनिः । हस्तिसूचकयोः किम् । स्तम्बे रन्ता गौः कर्णे जपिता गुरुः, मशको वा ।

Padamanjari

Up

स्तम्बकर्णयो रमिजपोः॥ रमेरकर्मकत्वादिति। ननु'व्याङ्परिभ्यो रमः' ठुपाच्चऽ इत्यत्रोदाहृतम् - देवदतमुपरमतीति? एवं मन्यते - ठनुपसर्गेऽ इति वर्तत इति। जपेश्च शब्दकर्मकत्वादिति। मन्त्रं जपतीत्यादौ तत्रैव प्रयोगदर्शनात्। कर्म न संभवतीति। केवलस्य रमेर्जपेश्च कर्माद्यशब्दात्मकमिति भावः। सूचकःऊपिशुनः। स्तम्बेरम इति।'तत्पुरुषे कृति बहुलम्' इत्यलुक्। कर्णे जपिता मशक इति। उपांशुशब्दायितेत्यर्थः॥