भुवश्च

3-2-138 भुवश्च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु इष्णुच् छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भवतेर्धातोश्छन्दसि विषये तच्छीलादिष्विष्णुच् प्रत्ययो भवति। भवि॒ष्णुः॑(मै०सं० १.८.१)। योगविभाग उत्तरार्थः। चकारोऽनुक्तसमुच्चयार्थः। भ्राजिष्णुना लोहितचन्दनेन॥

Siddhanta Kaumudi

Up

छन्दसीत्येव । भविष्णुः । कथं तर्हि जगत्प्रभोरप्रभविष्णुः वैष्णवमिति । निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भुवश्च>> - भुवश्च । छन्दसीत्येवेति । भूधातोरिष्णुच् स्यात्तच्छीलादिषु छन्दसीत्यर्थ- । अण्यन्तार्थ आरम्भः ।

Padamanjari

Up

भुवश्च॥ च्छन्दसीत्युच्यते, तत्कथम् -'जगत्प्रभोरप्रभविष्णु वैष्णवम्' 'विष्णवे प्रभविष्णवे' इति? निरंकुशाः कवयः। भ्राजिष्णुनेति। नैतद्भाष्ये समाश्रितम्॥