3-2-137 णेः छन्दसि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु इष्णुच् भुवश्च
ण्यन्ताद् धातोश्छन्दसि विषये तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति। दृषदं धारयिष्णवः(शा०आ० १२.२)। वी॒रुधः॑ पारयि॒ष्णवः॑ (ऋ० १०.९७.३)॥
वीरुधः पारयिष्णवः ॥
<<णेश्छन्दसि>> - णेश्छन्दसि । ण्यन्ताद्धातोरिष्णुच् स्याच्छन्दसीत्यर्थ- । पारयिष्णव इति । पृधातोण्र्यनतादिष्णुचि णेर्लोपं बाधित्वाअयमन्ताल्वाय्ये॑त्यय् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् ।
णेश्च्छन्दसि॥ पारयिष्णव इति। ठयामन्ताल्वाय्येत्न्विष्णुषुऽ इत्ययादेशः॥