अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्

3-2-136 अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुबुधुसहचर इष्णुच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु भुवश्च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अलंकृञादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति। अलंकरिष्णुः। निराकरिष्णुः। प्रजनिष्णुः। उत्पचिष्णुः। उत्पतिष्णुः। उन्मदिष्णुः। रोचिष्णुः। अपत्रपिष्णुः। वर्तिष्णुः। वर्धिष्णुः। सहिष्णुः। चरिष्णुः॥ अलंकृञो मण्डनार्थाद् युचः पूर्वविप्रतिषेधेनेष्णुज् वक्तव्यः॥

Siddhanta Kaumudi

Up

अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पतिष्णु । उत्पचिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद- रुच्यपत्रपवृतुवृधुसहचर इष्णुच्>> - अलङ्कृढञ् । अलङ्कृञ्, निराकृञ्, प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर एषां द्वादशनां द्वन्द्वात्पञ्चमी । एभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् स्यात् । इत्यादीति । निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, वर्धिष्णुः, सहिष्णुः, चरिष्णुः ।

Padamanjari

Up

अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्॥ कृञिति करोतेर्ग्रहणम्, प्रसिद्धेः, न हिसार्थस्य।'जनी प्रादुर्भावे' 'डुपचष्पाके' 'पचि व्यक्तीकरणे इत्यस्येदित्वान्नुमा भाव्यमिति नायं निर्द्देशः सम्भवति।'शल हुल पत्लृ गतौ' ठुत्पत्तिष्णू च चेरतुः खरदूषणौ' इति भट्टिकाव्ये प्रयोगः 'पद गतौ' इत्यन्ये पठन्ति।'मदो हर्षे' 'मद तृप्तियोगे' इत्ययं तु चुरादिः, तस्योन्मदेति निर्द्देशो न सम्भवति। रुच दीप्तौऽ'त्रपूष् लज्जायाम्' 'वृतु वर्तने' 'वृधु वृधौ' 'षह मर्षणे' 'चर गत्यर्थः। ये' त्र सोपपदा उपातास्तत्रोपातादेव रूपाद्भवति, तत एतन्न नोदनीयम् - ठुदः पचपतमदऽ इति वक्तव्यम्, किं स्वरूपतः? प्रत्येकमुत्पूर्वपाठेनेति तेन समुत्पत्तिष्णुरिति न भवतीत्याहुः। ये तु निरुपपादा उपातास्तेभ्यो यथादर्शनं भवति॥