आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

3-2-134 आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने भुवश्च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<भ्राजभास०>> ३.२.१७७ इति क्विपं वक्ष्यति। आ एतस्मात् क्विप्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामस्तच्छीलादिषु कर्तृषु ते वेदितव्याः। अभिविधौ चायमाङ्। तेन क्विपोऽप्ययमर्थनिर्देशः। तदिति धात्वर्थः शीलादिविशेषणत्वेन निर्दिश्यते। तच्छीलो यःस्वभावतः फलनिरपेक्षस्तत्र प्रवर्तते। तद्धर्मा तदाचारः, यः स्वधर्मे ममायमिति प्रवर्तते विनापि शीलेन। तत्साधुकारी यो धात्वर्थं साधु करोति। उत्तरत्रैवोदाहरिष्यामः॥

Siddhanta Kaumudi

Up

क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः ॥

Laghu Siddhanta Kaumudi

Up

क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु>> - आ क्वेः । आङभिविधौ । तदाह — क्विपमभिव्याप्तेति ।भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्वि॑ बिति सूत्रमभिव्याप्येति यावत् । तत्र ताच्छीलिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नेति 'आढसुभगे' ति सूत्रे भाष्ये स्पष्टम् । तच्छीलः = तत्स्वभावः । फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत् । स धर्मो यस्य स तद्धर्मा । स्वधर्मोऽयमिति प्रवर्तमानः । तस्या = धात्वर्थस्य साधुकर्ता तत्साधुकारी ।

Padamanjari

Up

आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ तदित्यादि।'धातोः' इति वर्तते, धातुश्च शब्दः, न तस्य शीलादिप्रतिविशेषणत्वमुपपद्यते, तस्मातस्य योऽर्थः स शीलादीनां त्रयाणां विशेष्याणां विशेषणत्वेन त्रिभिस्तच्छब्दैर्निर्दिश्यते। तत्र धात्वर्थे शीलं यस्य स धात्वर्थो धर्मो यस्य तस्य धात्वर्थस्य साधुकारीत्येवमित्यर्थः। तद्धर्मा तदाचार इति। धर्मशब्दस्याचारे प्रसिद्धत्वात्। विनापि शीलेनेति। तच्छीलाद्भेदं दर्शयति। यो धात्वर्थ साघु करोतीति। विनापि शीलेनेत्यनुषङ्गः॥