अर्हः प्रशंसायाम्

3-2-133 अर्हः प्रशंसायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने शत्र भुवश्च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रशंसा स्तुतिः। अर्हतेर्धातोः प्रशंसायां शतृप्रत्ययो भवति। अर्हन्निह भवान् विद्याम्। अर्हन्निह भवान् पूजाम्। प्रशंसायामिति किम्? अर्हति चौरो वधम्॥

Siddhanta Kaumudi

Up

अर्हन् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अर्हः पूजायाम्>> - अर्हः प्रशंसायाम् । अर्ह इति पञ्चमी । 'शतृप्रत्यय' इति शेषः । अर्हन्निति । पूजां प्राप्तुं योग्य इत्यर्थः । अत्र प्रशस्तस्यैव पूजायोग्यत्वात्प्रशंसा गम्यते ।

Padamanjari

Up

अर्हः प्रसंसायाम्॥ अर्हति चौरो वधमिति।'लटः शतृशानचौ' इत्यनेनापि न भवति, प्रथमासमानाधिकरणत्वात्। अस्तु वा ठदुपदेशाल्लसार्वधातुकम्ऽ इत्यनुदातः॥