3-2-132 सुञो यज्ञसंयोगे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने शत्र भुवश्च
यज्ञेन संयोगो यज्ञसंयोगः। यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेर्धातोः शतृप्रत्ययो भवति। सर्वे सुन्वन्तः। सर्वे यजमानाः सत्रिण उच्यन्ते। संयोगग्रहणं प्रधानकर्तृप्रतिपत्त्यर्थम्। याजकेषु मा भूत्। यज्ञसंयोग इति किम्? सुनोति सुराम्॥
सर्वे सुन्वन्तः सर्वे यजमानाः सत्रिणः ॥
<<सुञो यज्ञसंयोगे>> - सुञो यज्ञ । यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः । संयोगग्रहणं यज्ञस्वामिपरिग्रहार्थम् । तेन याजकेषु न भवति । तत्र सुन्वन्नित्येकवचनान्तं दशपूर्णमासज्योतिष्टोमादिविषयम्, एककर्तृकत्वात् । बहुवचनान्तं तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वा आह — सर्वे सुन्वन्त इति ।
सुञो यज्ञयंयोगे॥ कर्मसाधनस्संयोगशब्द इत्याद - यज्ञसंयुक्तेऽभिषव इति। सर्वे सुन्वन्त इति। प्रयोगः। तस्य विषयमाह - सर्वे यजमानास्सत्रिण उच्यन्ते इति। सूत्रेषु हि ये यजमानास्ते ऋत्विज इति सर्वे प्रधानकर्तारः। इह'सुञो यज्ञे' इत्येव सिद्धम्, यज्ञविषयश्चेत्सुनोत्यर्थो भवतीत्यर्थः, तत्किं संयोगग्रहणेन? तत्राह - संयोगग्रहणमिति।'लटः शतृशानचौ' इत्यनेनाप्यप्रधाने कर्तरि न भवति, संयोगग्रहणसामर्थ्यात्प्रधानकर्ताउअधिकारी॥