द्विषोऽमित्रे

3-2-131 द्विषोः अमित्रे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने शत्र भुवश्च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अमित्रः शत्रुः। अमित्रे कर्तरि द्विषेर्धातोः शतृप्रत्ययो भवति। द्विषन्, द्विषन्तौ, द्विषन्तः। अमित्र इति किम्? द्वेष्टि भार्या पतिम्॥

Siddhanta Kaumudi

Up

द्विषन् शत्रुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्विषोऽमित्रे>> - द्विषोऽमित्रे । द्विषः शतृप्रत्ययः स्यादमित्रे कर्तरीत्यर्थः ।

Padamanjari

Up

द्विषोऽमित्रे॥ असन्देहार्थम्'मित्रे द्विषः' इति सूत्रान्यासादकारप्रश्लेषो विज्ञायत इत्याह - अमित्रश्शत्रुरिति। अमेर्द्विषतीति त्रच्प्रत्ययः, न पुनरयं नञ्समासः, परवल्लिङ्गप्रसङ्गात् लोकाश्रयत्वाल्लिङ्गस्य। स्वरे दोषः, चित्स्वरो हीष्यते। बह्वचास्तु मध्योदातममित्रशब्दमधीयते - अमित्रस्य व्यथया मन्युमिन्द्रः, अमैरमित्रमर्दय। द्विषेस्स्वरितत्वात्कर्त्रभिप्राये शता न प्राप्नोतित्ययमारम्भः॥