इङ्धार्योः शत्रकृच्छ्रिणि

3-2-130 इङ्धार्योः शत्र कृच्छ्रिणि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इङो धारेश्च धात्वोः शतृप्रत्ययो भवत्यकृच्छ्रिणि कर्तरि। अकृच्छ्रः सुखसाध्यो यस्य कर्तुर्धात्वर्थः सोऽकृच्छ्री। अधीयन् पारायणम्। धारयन्नुपनिषदम्। अकृच्छ्रिणीति किम्? कृच्छ्रेणाधीते। कृच्छ्रेण धारयति॥

Siddhanta Kaumudi

Up

आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि । अधीयन् । धारयन् । अकृच्छ्रिणि किम् । कृच्छ्रेणाधीते । धारयति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इङ्धार्योः शत्रकृच्छ्रिणि>> - इङ्धार्योः । शतृ- अकृच्छ्रिणीति छेदः । अकृच्छ्रम् = अदुःखम्, तदास्यास्तीति अकृच्छ्री । इङ्, धारि अनयोद्र्वन्द्वात् पञ्चम्यर्थे षष्ठी । अधीयन्निति । सुखमध्येतेत्यर्थः । धारयन्निति । सुखेन धारयितेत्यर्थः ।

Padamanjari

Up

इङ्धार्योः शत्रकृच्छ्रिणि॥ अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थ इति। अस्तीति शेषः। ठत इनिठनौऽ इतीनिः, अपुत्रा भार्यादिवद् बहुव्रीहिणैव सिद्धे तत्पुरुषान्मत्वर्थीयः कृतः; लघुत्वम्प्रति सर्वत्रानादरात्। इङ् आत्मनेपदित्वाद्धारयतेश्च कर्त्रभिप्राये शता न सिद्ध्यति, लसार्वधातुकानुदातत्वं च प्राप्नोतीत्ययमारम्भः॥