अर्हः

3-2-12 अर्हः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<अर्ह पूजायाम्>> अस्माद् धातोः कर्मण्युपपदेऽच् प्रत्ययो भवति। अणोऽपवादः। स्त्रीलिङ्गे विशेषः। पूजार्हा। गन्धार्हा। मालार्हा॥

Siddhanta Kaumudi

Up

अर्हतेरच् स्यात्कर्मण्युपपदे । अणोपवादः । पूजार्हा ब्राह्मणी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अर्हः>> - अर्हः । अणोऽपवाद इति । यद्यपि अणि अचि च पूजार्हरूपे न विशेषः, अदुपधत्वाऽभावेन वृद्धेरप्रसक्तेः, तथापि स्त्रियामण्णन्तत्वे ङीप्स्यात्, तन्निवृत्तये अज्विधिः । तदाह — पूजार्हेति ।

Padamanjari

Up