तौ सत्

3-2-127 तौ सत् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने

Kashika

Up

index: 3.2.127 sutra: तौ सत्


तौ शतृशानचौ सत्संज्ञौ भवतः। तौग्रहणमुपाध्यसंसर्गार्थम्। शतृशानज्मात्रस्य संज्ञा भवति। ब्राह्मणस्य कुर्वन्। ब्राह्मणस्य कुर्वाणः। ब्राह्मणस्य करिष्यन्। ब्राह्मणस्य करिष्यमाणः। सत्प्रदेशाः पूरणगुणसुहितार्थसद्. अव्ययतव्यसमानाधिकरणेन 2.2.11 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 3.2.127 sutra: तौ सत्


तौ शतृशानचौ सत्संज्ञौ स्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.2.127 sutra: तौ सत्


तौ शतृशानचौ सत्संज्ञौ स्तः॥

Balamanorama

Up

index: 3.2.127 sutra: तौ सत्


तौ सत् - तौ सत् । 'लटः शतृशानचौ' इति सूत्रोपात्तौ शतृशानचौ तच्छब्दः परामृशति । तदाह — तौ शतृशानचाविति ।

Padamanjari

Up

index: 3.2.127 sutra: तौ सत्


तौ सत्॥ तौग्रहणं किमर्थम्, संज्ञाविधिर्यथा स्यात् सदित्यस्य प्रत्ययस्य विधिर्मा भूदिति? नैतदस्ति प्रयोजनम्, पूर्वसूत्रे शतृशानचौ स्वरयिष्येते, तत्सामर्थ्यातयोरनुवृतयोः संज्ञैव भविष्यति, तत्राह - तौग्रहणमुपाध्यसंसर्गार्थमिति। लट्स्थानिकत्वाद् वर्तमानकालविहितत्वं चोपाधिः, तेनोपाधिनाऽसंबन्धार्थः, तौग्रहणमित्यर्थः, किं सिद्धमित्याह - शतृशानज्मात्रस्येति। असति तौग्रहणे याद्दशौ शतृशानचौप्रकृतौ लट्स्थानिकौ वर्तमानकालौ च ताद्दशयोरेव संज्ञा स्यात्, ततश्च लृडादेशयोर्न स्यात्।'लृटस्सद्वा' इत्येततु वचनं सत्संज्ञकप्रतिरूपयोर्विधानार्थ स्यात्, यथा - अमी पिष्टपिण्डाः सिंहाः क्रियन्तामिति तदाकाराः क्रियन्ते। विहितयोस्तूतरकालं संज्ञा न सिध्यति, ततश्च ब्राह्मणस्य पक्ष्यन्, ब्राह्मणस्य पक्ष्यमाण इति समासप्रतिषेधो न स्यात्; तस्यां दशायां सत्संज्ञाया अभावात्। एवं भूतकालयोरपि न स्यात्।'वर्तमानसामीप्ये वर्तमानवद्वा' इति वचनाद्भूतेऽपि शतृशानचौ भवतः। एवं तत्रापि वर्तमानवदित्यतिदेशेन विधानमेव तयोर्भूते सिद्ध्यति, न तु संज्ञा। प्रत्ययाधिकाराद्वि प्रत्यय एवातिदिश्यते, न सज्ञा। तथा'ननौ पृष्टप्रतिवचने' इत्यपि लटः शतृशानचौ भवत इत्युक्तम्, तयोरपि संज्ञा न भवेत्, तौग्रहणे सति तयोरपि संज्ञा भवति - ननु मां ब्राह्मणस्य कुर्वन्तम्पश्य ननु मां ब्राह्मणस्य कुर्वाणम्पश्येति। अथ क्रियमाणेऽपि तौग्रहणे कथमिव कालान्तरविहितयोः संज्ञा सिद्ध्यति, यावता प्रकृतस्यैव वस्तुनस्सर्वनाम्ना परामर्शः? सत्यम्; तौग्रहणसामर्थ्यातु विशेषणांशरित्यागेन शतृशषानचो रूपमात्रं परामृश्यते॥