3-2-126 लक्षणहेत्वोः क्रियायाः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने लटः शतृशानचौ
लक्ष्यते चिह्न्यते येन तल्लक्षणम्। जनको हेतुः। धात्वर्थविशेषणं चैतत्। लक्षणे हेतौ चार्थे वर्तमानाद् धातोः परस्य लटः शतृशानचावादेशौ भवतः, तौ चेल्लक्षणहेतू क्रियाविषयौ भवतः। लक्षणे — शयाना भुञ्जते यवनाः। तिष्ठन्तोऽनुशासति गणकाः। हेतौ — अर्जयन् वसति। अधीयानो वसति। लक्षणहेत्वोरिति किम्? पचति। पठति। क्रियाया इति किम्? द्रव्यगुणयोर्मा भूत्। यः कम्पते सोऽश्वत्थः। यदुत्प्लवते तल्लघु। यन्निषीदति तद् गुरु। लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारलिङ्गम्॥
क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं च । कृत्यचः <{SK2835}> । प्रपीयमाणः सोमः ॥
<<लक्षणहेत्वोः क्रियायाः>> - लक्षणहेत्वोः । लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणं = ज्ञापकम् । तदाह — क्रियायाः परिचायके इति । धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् । कर्तैव प्रत्ययार्थः । शयाना भुञ्जते यवना इति । अत्र भोजनकालीनं शयनं भोक्तुर्यवनत्वसूचकम् । हेतावुदाहरति — अर्जयन्वसतीति । अर्जनाय वसतीत्यर्थः ।हेतावुदाहरणान्तरमाह — हरिं पश्यन्निति । हरिदर्शनेन संसारदुःखान्मुच्यते इत्यर्थः । ननु धनाद्यार्जनस्य वाससाध्यतया कथं तस्य वासहेतुत्वमित्यत आह — हेतुः फलं कारणं चेति । इष्टसाधनताज्ञानस्य वासप्रवृत्तौ हेतुतया इष्टस्यार्जनस्यापि वासहेतुमिति भावः । प्रपीयमाण इति । अत्र भिन्नपदस्थत्वात् कथं णत्वमित्यत आह — कृत्यचेति ।
लक्षणहेत्वोः क्रियायाः॥ लक्ष्यते चिह्न्यते येनेति। चिह्नयतिरवधारयत्यादिवच्चुरादिषु द्रष्टव्यः। धात्वर्थविशेषणं चैतदिति। नोपपदं क्रियाया इति वचनात्। उपपदं हि धातोर्भवति, स च क्रियावचन इति क्रियाग्रहणमनर्थकमुपपदत्वे स्यात्। क्रियायाश्च लक्षणापेक्षया कर्मत्वम्, हेत्वपेक्षया तु शेषत्वम्, तत्रोभयानुग्रहाय कर्मणोऽपि शेषत्वविवक्षया शेषलक्षणैव षष्ठी, वृतौ तु वस्तुमात्रं प्रादर्शि। क्रियाविषयाविति। शयाना भुञ्जत इति। अत्र शयनं लक्षणं भोजनस्य। तिष्ठन्तोऽनुशासतीति। अत्रापि स्थानमनुशासनस्य। अर्जयन्वसतीति। ठर्ज प्रतियत्नेऽ चुरादिराङ्पूर्वः। लक्षणहेत्वोरिति किमिति। क्रियासम्बन्धिन्यर्थे वर्तमानादिति विज्ञायमाने लक्षणहेत्वोरपि भविष्यत इति प्रश्नः, अतिप्रसङ्गेन तूतरम्। पचति च पठतिचेति। अत्र द्वयोः क्रिययोरेकस्मिन्साधने समुच्चयातद्द्वारेण परस्परसम्बन्धोऽप्यस्तीत्युभयत्रापि प्रसङ्गः। यः कम्पते सोऽश्वत्थ इति। बहुषु वृक्षेषु तिष्ठत्सु कम्पनेनाश्वत्थो लक्ष्यते, तच्च द्रव्यम्। यदुत्प्लवते तल्लघ्विति। अत्राप्युत्प्लवनेन लाघवं गुणो लक्ष्यते। निषदनं निमज्जनं तेन गौरवं गुणो लक्ष्यते। इह तु योऽधीयान आस्ते स देवदत इति आसिक्रियाया एवाध्ययनक्रियालक्षणम्, न देवदतस्य, आसिक्रिया तु तस्य लक्षणम्। एवं यस्तिष्ठन्मूत्रयति स ब्राह्मणब्रुव इति, अत्रापि स्थितिक्रिया मूत्रणक्रियाया एव लक्षणम्, सैव तु देवदतस्याशौ चादेर्लक्षणं न स्थितिक्रियेति सूत्रेणैव सिद्ध आदेशः। कथं शयाना वर्धते दूर्वा, आसीनं वर्धते विषमिति, न ह्यासनशयते वृद्धेर्लक्षणम्, किं तर्हि? स्वभावमात्रकथनमेतत्? भवति वै स्वभावाख्यानमपि लक्षणम्, यथा - चैतन्यलक्षणं पुरुष इति। पूर्वनिपातव्यमिचारलिङ्गमिति।'द्वन्द्वे घि' ,ठल्पाच्तरम्ऽ इति यौ पूर्वनिपातौ तयोर्व्यभिचारे लिङ्गमित्यर्थः। तेन धूमाग्नी, मृदङ्गशङ्खपणवा इत्यादिप्रयोगोपपतिः॥