3-2-120 ननौ पृष्टप्रतिवचने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने लट्
अनद्यतने परोक्ष इति निवृत्तम्। भूतसामान्ये विधिरयम्। ननुशब्द उपपदे प्रश्नपूर्वके प्रतिवचने भूतेऽर्थे लट् प्रत्ययो भवति। लुङोऽपवादः। अकार्षीः कटं देवदत्त? ननु करोमि भोः। अवोचस्तत्र किंचिद् देवदत्त? ननु ब्रवीमि भोः। पृष्टप्रतिवचन इति किम्? नन्वकार्षीन् माणवकः॥
अनद्यतनपरोक्ष इति निवृत्तम् । भूते लट् स्यात् । अकार्षीः किम् । ननु करोमि भोः ॥
<<ननौ पृष्टप्रतिवचने>> - ननौ पृष्ट । निवृत्तमिति । व्याख्यानादिति भावः । अकार्षीः किमिति प्रश्नः । ननु करोमीत्युत्तरम् । अकार्षमित्यर्थः । नन्विति संबोधने ।
ननौ पृष्टप्रतिवचने॥ पृष्टमिति कर्मणि क्तः, पृष्टस्य प्रतिवचनं पृष्टप्रतिवचनम्। वृतौ तु वस्तुमात्रं दर्शितम्। प्रश्नपूर्वके प्रतिवचन इति। उदाहरणे पूर्वशः प्रश्रः,उतर उदाहरणम्। पृष्टग्रहणार्थकं प्रश्नपूर्वकमेव प्रतिवचनम्? तन्न; विरुद्धमपि वचनं प्रतिवचनं वचनाभिमुखं प्रतिवचनमित्यपि सम्भवात्। तस्मात् पृष्टग्रहणम्। अत्यन्तासन्नकाले चायं विधिरिष्यते, तत्र निर्वृतायामपि पाकादिक्रियायां तत्कृतस्य श्रमादरेनुवृत्तिः। एवं च श्रमादिदर्शनेन सैव क्रिया वर्तत इति शक्यं वक्तुमिति।'वर्तमाने लट्' इत्येव सिद्धेः प्रत्याख्यातमिदम -'ननौ पृष्टप्रतिवचने' इत्यशिष्यम्, क्रियासमाप्तेरविवक्षितत्वादिति॥